पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।



मविशेषात् कैवल्यलक्षणादत्यो घटभावो नाम । प्रति- क्षणं परिणामिनो हि सर्व एव भावाः-ऋते चितिशक्तेः ।

रमाणौ पृथिवीत्वाद्यभावप्रत्यक्षं स्यादित्यत आह । न हीति । तथा च परमाणोरयेग्यत्वेन तत्परिणामविशेषस्यापि न प्रत्यक्ष- त्वमिति भावः । प्रतिक्षणमिति । धर्मधर्यभेदे, धर्माणां कालभे- देन व्यावृत्तिदर्शनाद्धर्मिणोपि प्रतिक्षणं भेद आवश्यक इति भावः । ननु भूतले घटो नास्ति, घटो ध्वस्तः, घटो न पट इत्यादिप्रतीतीना- मनन्तानामधिकरणविषयत्वे गौरवाल्लाघवेनातिरिक्ताभावसिद्धिः । अन्यथा घटवत्यापि भूतले घटो नास्तीति प्रतीत्यापत्तेः, इति चेन्न । निरधिकरणकाभावप्रतीत्यभावेन यदधिकरणमन्तर्भाव्य यदभावप्र- तीतिः तस्यास्तदधिकरणात्मकतदभावविषयकत्वोपगमे गौरवान- वकाशात् । अतिरिक्तत्वमतेऽयुत्तरदोषवारणाय तत्तत्कालविशेषा- वच्छिन्नतत्तभूतलादिस्वरूपस्य सम्बन्धत्वाङ्गीकर्रे मयापि तद ङ्गीकारे क्षत्यभावात् । अतिरिक्ताभवाननुभवञ्च ।

 तदुक्तम्-‘दृष्टस्तावदयं घटोऽत्र च पतन् दृष्टस्तथा मुद्गरो दृष्टा खर्परसंहतिः परिमितोऽभावो न दृष्टः परः।

 तेनाभाव इति श्रुतिः क्व निहिता किं चात्र तत्कारणं स्वाधी- ना कलशस्य केवलमियं दृष्टा कपालावली' ॥ इति ।

 न च घटो नास्तीत्याद्यनुभवोस्तीति वाच्यम् । तस्य विचा- र्य्यमाणत्वात् । तथा हि-किं घटभावस्य घटन सम्बन्धोस्ति न वा। नान्यः । सम्बन्धावगाहिनो भ्रमत्वपत्तया वस्त्वसिद्ध्यापत्तेः । न प्रथमः ! सम्बन्धस्य सम्बन्ध्यधीनत्वेन सम्बन्धिनोऽपि सत्त्वापत्तेः । एतदभिप्रायेणैव प्रागभावध्वंसयोरवस्थाविशेषरूपत्वं सत्कार्यवादे वक्ष्यते । एतेन ततपरिणामानां तत्तदिन्द्रियाग्राह्यात् स प्रत्यक्षो न स्यादिति परास्तम् । तत्तत्परिणामानां तत्तदैन्द्रियग्राह्यत्वनिय- मकल्पनात् । यथा चैतत्तथोक्तं प्राक् ।. आधिकं तु खण्डनादानुस-