पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
सटीकसाङ्ख्यतत्त्वकौमुद्याम्



यञ्च-"अनिर्दिष्टप्रवक्तृकं प्रवाद पारम्पर्यमात्रम्-" इति होतुर्वृद्धौः,-इत्यैतिह्यम् । यथा “इह वटे यक्षः प्रतिव सति’ इति, न तत् प्रमाणान्तरम् । अनिर्दिष्टप्रवक्तृक- त्वेन न सांशयिकत्वात् । आप्तवक्तृकत्वनिश्चये त्वागम एव । इत्युपपन्नम् “त्रिविम्प्रमाणम्” इति ॥ ५ ॥

 एवं तावद्व्यक्ताव्यक्तज्ञलक्षणप्रमेयसिद्ध्यर्थं प्रमाणानि लक्षितानि । तत्र व्यक्तं पृथिव्यादि स्वरूपतः पांसुलपा- दको आलिकोऽपि प्रत्यक्षतः प्रतेिपद्यते, पूर्ववता चानु- मानेन धूमादिदर्शनात् वहथादीनि चेति, तद्व्युत्पाद- नाय मन्दप्रयोजनं शास्रम् , इति दुरधिगमम् -अनेन व्युत्पाद्यम् । तत्र यत्प्रमाणं यत्र शक्तम् तदुक्तलक्षणभ्यः प्रमाणेभ्यो निष्कृष्य दर्शयति--


 सामान्पतस्तु दृष्टात् अतीन्द्रियाणां प्रतीतिरनुमानात् ।
 तस्मादपि चासिद्धं परोक्षमाप्तगमात् सिद्धम् ॥ ६ ॥


"सामान्यतः" इति । ‘तु’ शब्द प्रत्यक्षपूर्ववदूभ्य वि- नियतनामभावादित्यर्थः।

 ऐतिह्यमाह । यश्चेति । अप्रमाणत्वे हेतुमाह । सांशयिक- त्वदिति ॥ ५ ॥

 वृत्तवर्तिष्यमाणयोः सम्बन्धं वक्तुं वृत्तं कीर्तयेति । एव- मिति । ननु व्यक्ताव्यक्तज्ञप्रमेयसिध्यर्थं प्रमाणानि लक्षितानि, पृथिव्यादिव्यक्तबोधकप्रत्यक्षस्य वन्ह्यादिबोधकानुमानस्याप्तदर्शना- न्न्यूनतेति शङ्कां दूरीकुर्वन्नार्य्यामवतारयतिं । तत्रेत्यादिना ।

 यत्तु 'समन्यत ’इति षष्ठ्यन्तात्तसिः । तथाचेन्द्रिययो पयस्य सर्वस्यापेक्षितस्यानपेक्षितस्य च दृष्टात्-प्रत्यक्षादेव’ इति ।