पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
प्रत्यक्षप्रतिबन्धकनिरूपणम् ।



  • पतत्रा अतिंदूरतय सन्नपि प्रत्यक्षण् नापलभ्यते ।

सामीप्यादित्यत्राप्यतिरनुवर्तनीयः यथा लोचनस्थमञ्च- नमति सामीप्यन्न दृश्यत । इन्द्रयघाताऽन्धत्वबांधर- त्वादिः । ‘'मनोऽनवस्थानत्" यथा कामाद्युपहतमनाः स्फीतालोकमध्यवर्तिनमिन्द्र्यसन्निकृष्टमर्थं न पश्यति । ‘सौक्ष्म्यात्', यथेन्द्रियसन्निकृष्टं परमाण्वादि प्रणिहि- तमना अपि न पश्यति । ‘व्यवधानात्’,यथा कुडया- दिव्यवहितं राजदारादि न पश्यति । "आभिभवात्" यथाऽहनि सौरीभिर्भाभिरभिभूतं ग्रहनक्षत्रमण्डलं न पश्यति । 'समानाभिहारात्’, यथा तोयदविमुक्तानुद- बिन्दून् जलाशये न पश्यति ।

 च' करो ऽनुक्तसमुच्चयार्थः । तेनानुद्भवोऽपि सङ्गृहीतः । तद्यथा क्षीराद्यवस्थायां दध्याद्यनुद्भवान्न पश्यति ।

 एतदुक्तं भवति । न प्रत्यक्षनिवृत्तिमात्राद्वस्त्वभा- वो भवति, अतिप्रसङ्गात् । तथा हि गृहाद्विनिर्गतो गृ हजनमपश्यंस्तदभावं विनिश्चिनुयात्, न त्वेवम् । अ- पि तु योग्यप्रत्यक्षनिवृत्तेरयमभावं विनिश्चिनोति । न च प्रधानपुरुषादीनामस्ति प्रत्यक्षयोग्यत, इति न तन्निवृत्तिमत्रात्तदभावनिश्चयो युक्तः प्रामाणिकाना- मिति ॥ ७ ॥




समाधानग्रन्थस्य तात्पर्यमाह । एतदुक्तं भवतीति हि प्रत्यक्षनिवृत्तिमात्रमभावसाधकमतिदूरस्थादौ व्यभिचारात् , किन्त्वतिदूरत्वादिदोषभावविशिष्टे इत्यर्थः । गृहजनपर्यन्तानुघवनं तु तदभावनिश्चये दुःखोत्पादप्रदर्शनाया । इष्टापत्तिं धुनीते । अ- पित्विति । तथा च कारणाभावान्न तदभावोपलम्भ इत्यर्थः ॥७।



२४