पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



कतमपुनरेषु कारणं प्रधानादीनामनुपलब्धावि- त्यत आह--


 सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्, कार्यतस्तदुपलब्धेः ।
 महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८॥


 सौक्ष्म्यात्’ इति । अथाभावादेव सप्तमरसवदे . तेषामनुपलब्धिः कस्मान्न भवतीत्यत आह—"नाभावा- त्” इति । कुतः ! ‘कार्यतस्तदुपलब्धेः । ‘तत्’ इति प्रधानं परामृशति । पुरुषोपलब्धौ तु प्रमाणं वक्ष्यति,

 "सङ्घातपरार्थत्वात्” ( कारिक १७ ) इति । दृढ- तरप्रमाणावधरिते हि प्रत्यक्षमप्रवर्तमानमयोग्त्वान्न प्रवर्तते इति कल्प्यते । सप्तमस्तु रसो न प्रमाणेनाऽव- धारित इति न तत्र प्रत्यक्षस्य योग्यता शव्क्याऽध्ययव- सितुमित्यभिप्रायः ।

 अतिद्रस्वादिदोषेषु प्रकृत्याद्युपलम्भे प्रतिबन्धकं दर्शयितुं पृ च्छति | कतमदिति । एषु दूरत्वादिदोषेषु । उत्तरयति । सौक्ष्म्या- दिति । सूक्ष्मत्वं चात्र नाणुत्वं प्रधानपुरुषयोर्व्र्यांव्पकत्वात् । किं तु निरवयवद्रव्यत्वमेव । न च सौक्ष्म्यमनुपलब्धों न तन्त्रं योगि- प्रत्यक्षे व्यभिचारादिति वाच्यम् । योगजधर्मस्योत्तेजकत्यादिति । ननु दूरस्थानां पुनर्दर्शनेनोपलभ्यत्वसामान्याभावरूपहेतोर्न तत्र व्यभिचरः । शशशृङ्गादेरपि सौक्ष्म्यादनुपलब्धिसम्भवे शशशृङ्गा- देस्सत्वापत्तिश्चात्राSनुमानेऽनुकूलतर्क इत्याशङ्क्यते । अथेति । स माधानमाह । दृढतरेत्यादि । व्यभिचारदर्शनप्रयुक्तं दृढत्वं,योगज- प्रत्यक्षविषयकत्वेन दृढतरत्वं च बोध्यम् । तथा च प्रमाणेनोपळभ्य- मानत्वात्तत्समानाभावो ऽसिद्ध इत्यर्थः । दृष्टान्तस्य वैषम्यमाह । सप्तम इति । तत्र प्रत्यक्षस्य दुर्बलत्वेऽपि अत्र दृढतरप्रमण-