किं पुनस्तत्कार्यं यतः प्रधानानुमानमित्यत अह--
"महदादि तच्च कार्यम्" इति । एतच्च यथा ग- मकं तथपरिष्टादुपपाद्यिष्यते । तस्य च कार्यस्य ववेकज्ञानपयोगिनी सारूप्यवैरूप्ये आह्व-'प्रकृतिस- रूपं विरूपे च ” इतेि । एते तूपरिष्टाद्विभजनीय इति ॥८॥
कार्यात् कारकमात्रं गम्यते । सन्ति चात्र वादिन्नां विप्रतिपत्तयः । तथाहि केचिदाहुः‘असतः सज्जा- यत' इति, ‘एकस्य सतो विवर्तः कार्यजातं न वस्तु सत् इत्यपरे, अन्ये तु 'सतः असज् जायते’ इति, ‘सतः सज् जायते’ इति वृद्धः।
तत्र पूर्वस्मिन् कल्पत्रथे प्रधानं न सिध्यति । सुव दुःखमोहभेदवत्स्वरूपपरिणामशब्दाद्यात्मकं हि जगत् कारणस्य प्रधानस्य प्रधानत्वं सत्त्वरजस्तमस्स्वभावत्व-
विरोधाभावात्र प्रत्यक्षं दुर्बलमित्यर्थः । यत्कार्यान्यथानुपपत्त्या-
प्रधानमङ्गीकृतं तत्पृच्छति । किं पुनरिति । तथोपरिष्टादिति ।
कारणगुणामकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ।
भेदनां परिमणादित्यादौ
उपरिष्टात्- हेतुमदनित्यमित्यादौ ॥ ८ ॥
ननु कार्यं चेदुत्पत्तेः प्राक् सिद्धं स्यात्तदा तदधारतया नित्या
प्रकृतिः सेत्स्यति, तच्च न सम्भवति, वादिविप्रतिपत्तेरित्याशङ्का-
यां सत्कर्षोपपादिकामार्य्यामवतारयति । कार्यात्कारणमात्र
मिति । बौद्धमतम।ह | असत इति । वेदान्तमतमाह । एकस्य
सत इति । सतो ब्रह्मण इत्यर्थः। नैय्यायिकमतमाह । अन्येस्विति ।
साङ्ख्यमतमह । सतः सदिति । मतत्रये प्रकृतिर्न सिद्ध्यतीत्या-
है । तत्र पूर्वस्मिन्निति । प्रधानशब्दार्थमाह । सुखेत्यादि ।