ऽतदात्मना चासत्वेन कथमसन् घटः ? तस्मात् कारण-
व्यापारादूर्ध्बमिव ततः प्रागपि सदैव कार्यमिति । कार-
णाच्चास्य सताऽभिव्यक्तिरेवावशिष्यते । सतश्चाभिः
ब्याक्तिरुपपन्ना, यथा पीडनंन तिलेषु तैलस्य, अवघातेन
धान्येषु तण्डुलानाम् , दोहनेन सौरभेयीषु पयसः ।
असतः करणे तु न निदर्शनं किञ्चिदस्ति । न खल्वभि-
व्यज्यमानं चोत्पद्यमानं वा क्वचिदसदुद्दष्टम् ।
न्धानङ्गीकारे शशशृङ्गाद्यभावोपि स स्यादसम्बन्धाविशेषात् । अभा- वेपि प्रतियोगिनं विना स्वरूपतोविशेषाङ्गीकारे ऽभावत्वस्य परि- भाषामात्रत्वप्रसङ्गः, प्रतियोगिनो विशेषकत्वाङ्गीकारे असतः प्र- तियोगिनः प्रागभावादिषु निरूपकत्वरूप-विशेषकत्वासम्भवः । न च कालादिरेवाधिकरणम् । प्रागभावादेः क्रियाविरहेण क- पालादौ वृत्तित्वाभावप्रसङ्गात् । किं च घटध्वस्तो घटाभावः घटोऽत्र नास्तीत्यादिप्रत्ययनियामकतया किञ्चिद्वस्त्वाकाङ्क्षायां नि- त्यस्य कार्यस्यातीतानागतवर्तमानावस्था-भावरूपं नियामकं क- लूप्यते, लाघवात्, अमावस्यादृष्टस्य कल्पनै गौरवादियभिप्रायः ।
ननु घटादेः सम्वन्धाभावेनासत्त्वासम्भवेप्युत्पत्तेः प्राक् का- रणतादात्म्याभावेनाऽसत्वमस्त्वित्याशङ्क्याह । अतदात्मनेति । कार्यस्य घटादेः पिण्डात्मत्वाभावपि मृदात्मत्वसम्भवादित्यर्थः । अपरोक्षत्वाञ्च शशाविषाणवदसत्त्वं न सम्भवतीति सूचयन्नुपसंहरति। तस्मादिति । ननु तर्हि कार्यस्य नित्यत्वप्रसक्त्या सामग्रीवैयर्थ्य: प्रसङ्ग इत्याशङ्क्याह । कारणाच्चेति । तथा च सामग्र्या वर्तमा- नावस्था-लक्षणपरिणामरूपाभिव्यक्त्यर्थत्वा वैयर्थ्यमित्यर्थः । इदं च दृष्टचरामत्याह । यथा पीडनेनेत्यादि । न खल्विाति । तथा चाऽसतो ऽभिव्यक्त्याद्यङ्गीकारे सर्वत्राऽसवाविशेषात्सर्वत्राऽभि-