पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
सत्कार्यानुमानम्


वाभावात्" इति । असम्बद्धस्य जन्यत्वे, असम्बद्धत्वा- विशेषण सई कार्यजानं सर्वस्माद्भवेत् । न चैतदस्ति, तस्मन्निासम्बद्धमसम्वद्धेन जन्यते अपि तु सम्बद्धं सम्बद्धन जन्यते इति । यथाहुः साङ्ख्यवृद्धाः ।


 असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्व साङ्गिभिः ।
 असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः' ।

इति  स्यादेतत्-असम्बद्धमपि सत् तदेव करोति यत्र यत्का- रण शक्तम् । शक्तिश्च कार्यदर्शनादवगम्यते । तेन ना- व्यवस्थेत्यत आह---"शक्तस्य शक्यकरणात्' इति । सा शक्तिः शक्तकारणाश्रया सर्वत्र वा स्यात् , शक्ये एव वा ? सर्वत्र चत्तद्वस्थैवाव्यवस्था, शक्य चेत् , कथमसति

 असम्बद्धस्य जन्यले दोषमाह । असम्बद्धस्येति । असतस्स: म्बन्धाभावे विद्वत्संमतिमाह । यथाऽऽहुरिति । न व्यवस्थितिः- क्षीरादेरिव दध्यादिरिति । शक्त्या व्यवस्थामुपपदायितुं शङ्क्यते । स्यादेतदिति । इतश्च नासदुत्पाद इत्याह । शक्तस्य शक्य- करणादिति ।

 अन्ये शक्तिहिं शक्यरूप-कार्यनिरूपिता, तदसत्वे कथं स्या- दिल्याशयेन समादधते । सा शक्तिरिति । "शक्तकरणाश्रया" इत्यत्र ‘अपि' इति शेषः । सर्वत्रेति । निरूपकतासम्बन्धेनेति शेषः । असतीति । असतो निरूपकत्वासम्भवादित्यर्थः ।


 शक्तिर्हि कार्यस्यानागतावस्था, तदसत्त्वे कथं स्यादित्यन्ये ।
 तां शक्तिं त्रिधा विकल्प्य निराचष्टे-साशक्तिरितीत्यपरे ।

 शक्तिश्च शक्तिमत्सम्बन्धरूपा संयोगवदुभयत्र, या शक्याभावे न सम्भवतीति शक्यभावोऽभ्युपेय इति न्यायकणिकाचार्याः ।



२५