शक्ये तत्र, इति वक्तव्यम् । शक्तिभेद एवं एतादृशो
यतः किञ्चिदेव कार्यं जनयेत् न सर्वमिति चेत् , हन्त भोः
शक्तिविशेषः कार्यसम्बद्धो वाऽसम्बद्धो वा ? सम्बद्ध=
त्वे नासता सम्बन्धः इति सत् कार्यम् । असम्बद्ध्व्त्त्वे-
सैवाव्यवस्था, इति सुष्टूक्तं "शक्तस्य शक्यकरणात्"
इति ।
इतश्च सत् कार्यमित्याह-“कारण भाचाच्च का र्यस्य कारणात्मकत्वात् । नहि कारणाद्भिन्ने कार्यम्, का- रणं च सत्, इति कथं तदभिन्नं कायमसत् भवेत् ।
कार्यस्य कारणाभेदसाधनानि च प्रमाणानि--( १ )
न पटस्तन्तुभ्यो भिद्यते, तन्तुधमत्वात् । इह यद्यतो भिद्यते तत् तस्य धर्मो न भवति यथा गौरश्वस्य । धर्म- श्व पटस्तन्तूनां, तस्मान्नार्थान्तरम् । (२) उपादानोपा- देयभावाच्च नाथन्तरत्वं तन्तुपटयो: । ययौरथान्तर-
ननु शक्तेः शक्यनिरूप्यत्वरूपविशेषो नाङ्गीक्रियते, यन - क्यसत्वं स्यात् । किं तु स्वरूपावशेष एव स तादृशो येन यत्कि- ञ्चिदेव कार्य्यं जनयतीतित्याश्ग्क्ते । शक्तिभेद एवेति । अनि पितशक्तौ मानाभाव इत्याशयेन समाधत्ते । हन्त भरित्यादि- ना । दोषमाह । असम्बद्धत्वे सैवेति । ।
उत्पत्तेः प्राक् कार्यसत्वं भावयन्नस्याभिन्नत्वरूपधर्मपरत्वमाह । कार्यस्य कारणात्मकत्वादिति । अत्रानुमानम् --कार्यमुत्पत्तेः प्रागपि सत् कारणात्मकत्वात् उभयमतसिद्धकारणवदिति । विपक्ष स्वर्णजकुण्डलस्य मृदात्मकत्वापत्तिबाँधिका ।।
हैत्वासद्धिं परिहर्त्तेमाह । कार्यस्य कारणाभेदसाधनानीति प्रत्यक्षानुमानागमा इत्यर्थः । प्रत्यक्षं तु-मृद्धदः, स्वर्णं कुण्डल- मित्यादि । अनुमानं तु न पट इत्यादि । आगमास्तु-तद्धीदं तर्ह्य- -