त्वम् न तयो रुपादानोपादेयभावः, यथा घटपट्योः । उ- पादानोपादेयभावश्च तन्तुपटयाः । तस्मान्नार्थान्तरत्व- म् । ( ३ ) इतश्च नार्थान्तरत्वं तन्तुपटयोः संयोगाप्रा- त्यभावात् । अर्थान्तरत्वे हि संयोगो दृष्ट यथा कुण्ड़- बदरयोः, अप्राप्तिर्वा । यथा हिमाद्विन्ध्ययोः । न चेह सं- योगप्राप्ती, तस्मान्नार्थानतरत्वमिति । ( ४ ) इतश्च पट. स्तन्तुभ्यो न भिद्यते, गुरुत्वान्तरकार्याग्रहणात् । इह य- द्यस्माद्भिन्नम्, तस्मात् तस्य गुरुत्वान्तर कार्यं गृह्यते, यथैकपालिकस्य स्वस्तिकस्य यो गुरुत्व कार्योऽवनातिवि- शेषस्तस्मद्द्विपलिकस्य स्वस्तिकस्य गुरुत्वकार्योऽवनति- भेदोऽधिकः । न च तन्तुगुरुत्वकार्यात् पटगुरुत्वकार्या न्तरं दृश्यते । तस्मादाभिन्नस्तन्तुभ्यः पट इति । तान्येता- न्यभेदसाधनान्यवीतानि ।
व्याकृतमासीत् , सदेव सोम्येदमग्र आसीत्, तम एवेदमग्र आसीत्, असदेवेदमग्र आसीदित्याद्याः ।
यत्तु-धर्मत्वात्-धर्मपरिणामत्वात् । परिणामस्त्रविधः-ध- मेलक्षणावस्थाभेदात् । तत्र धर्मपरिणामो मृदो घटाद्याकारः, ल- क्षणपरिणामोऽतीतत्वादि, अवस्थापरिणामी नूतनतमत्वादीति, तन्न । उपादानेत्यादिना पौनरुक्यात् । अर्थान्तरम्-अत्यन्तभिन्नत्वम् । अनुमानान्तराण्थाह । उपादानेत्यादि । उपादानं-समवायिकारणं परिणामि वेति । उपादेयं-समवेतं परिणामो वेति ।
पलिकस्य-पलरूप-मानविशेषावच्छिन्नस्य स्वस्तिकस्य स्त्री- कण्ठाभरणविशेषस्य । गुरुत्वकार्थ्यो गुरुत्वस्य कार्य्यम् । अवन तिविशेषः-तुलाद्यो नमनावशेषः ।
यदुक्तं अवितस्य व्यतिरेकिण उदाहरणमग्रेऽभिधास्य इति तदाह । तान्यतानीति ।