एचभेदे सिद्धे, तन्तव एवं तेन तेन संस्थानभेदेन
परिणताः पटो, न तन्तुभ्योऽर्थान्तरं पटः । स्वात्मनि-
क्रियाविरोधबुद्धिव्यपदेशार्थक्रियाभदाश्च नैकान्तिकं भे-
दं साधयितुमर्हन्ति, एकस्मिन्नपि तत्तद्विशेषाधिर्भाव-
तिरोभावाभ्यामेतेषामविरोधात् । यथा हि कूर्मस्याङ्गा-
नि कूर्मशरीरे निविशमानानि तिरोभवन्ति, निःसर-
न्ति चाविर्भवन्ति । न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वं-
सन्ते वा । एवमेकस्या मृदः सुवर्णस्य वा घटमुकुटादयो
विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते,
निविशमानास्तिरोभवन्तः विनश्यन्तीत्युच्यन्ते । न
पुनरसतामुत्पादः सतां वा निरोधः । यथाह भगवान्
कृष्णद्वैपायनः----
नासतो विद्यते भावौ नाभावो विद्यते सतः"
इति। ।( भगवद्गीता २ । १६ )
ननु पटस्तन्तुभ्यो भिद्यते तत उत्पद्यमानत्वात् , व्यतिरेके त- न्तुवत् , तन्तुषु पट इंति विलक्षणबुद्धिविषयत्वात् , प्रावरणादि- विलक्षणकार्यकारित्वा्ञ्च घटवदित्याशङ्कायामाह। स्वात्मनीत्यादि। स्वात्मनि-स्वाभिन्नेपीत्यर्थः । क्रियाविरोधः-उत्पत्ति- नाशाख्यक्रियारूपयोरित्यर्थः । अविरोधे संमतिमाह । यथा- हेति । कृष्णद्वैपायनो वेदव्यासः ।
कृष्णेन सह द्वैपायनः । अन्यथा “ष्ट्शतानि सर्विशानि श्लोकानां प्राह केशवः' इति विरोधः । तं धर्मं भगवता यथोपदिष्टं भगवान्वेदव्यासः सर्वज्ञो गीतारव्यैः सप्तभिः श्लोकशतरुपानेबद्ध इति श्रीशङ्करभाष्यविरोधश्चत्यन्ये । भाव–उत्पत्तिः । अभावो–विनाशः ।