पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



 मैवम् । अथासंदुत्पद्यत इति मते केयमसदुत्पत्तिः १ सती, असती वा ? सती चेत्, कृतं तर्हि कारणैः । अ- सती चेत, तस्या अप्युत्पनत्त्यन्तरमित्यनवस्था ।

 अथ-"उत्पत्तिः पटान्नार्थान्तरम्, अपि तु पट एवा- सौ” तथाऽपि यावदुक्त भवति ' पट ' इति नावदुक्तं भवति ‘उत्पद्यते' इति । ततश्च ‘पट' इत्युक्ते, ‘उत्पद्यते इति न वाच्यम् , पौनरुक्त्यात् । 'विनश्यति' इत्याप न वाच्यम्, उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् ।।

 प्रमाणशून्यमित्यपरे ।

 स्वीयमतं दृष्टचरत्वेनावधारयितुं तन्मते उक्तदोषानिवृत्ति माह । अथेति ।।

 प्रतिवन्दिमुखेन तद्दोष निराकरोति । अथेतीत्यन्ये ।

 अनवस्थाति । यथा पटोत्पत्तिरसती कारणव्यापारजन्या तथा तदीयाऽप्युत्पत्तिरेवं रीत्या बोध्या । अनवस्थां परिह- र्तुमाशङ्कते । अथोत्पत्तिरिति । तथापीतिपौनरुत्यादिति । पट उत्पद्यते इत्यत्र पटपदेनैवोत्पत्तेरप्यभिधानादित्यर्थः । अन्यथा पटोत्पत्यनन्तरं पट उत्पद्यते इत्यपि स्यात् पटस्याग्रमक्षणेपि विद्यमानत्वादिति ।।

 तुल्ययुक्त्या पटध्वंसोपि पट एव, तथा च पटो विनश्यतीति न वाच्यम् , स्वाभावस्य स्वात्मकत्वविरोधादित्याह । विनश्यतीति-। पौनरुक्यदोषोऽत्रापि वोध्यः ।।

 यद्वा पटोत्पत्यारैक्ये पट इत्युक्तेरुत्पत्तेरपि लभ्यमानत्वा- दुत्पत्तिविनाशयोश्च विरोधात्पटो विनश्यतीत्यपि न वाच्यामित्याह । विनश्यतीति ।

 उत्पत्तिर्न पटादर्थान्तरमितिमतदूषणमुपसंहरन् कणभक्षाक्षचर-

-