ननु अर्थाभिव्यक्तः कारणव्यापारात् प्रागसत्तवाङ्गाकार सत्कार्यवादक्षतिरिति ।।
अत्रोक्तं भाष्यकारैः(१)--अस्मिन्पक्षे सत एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात् अभिव्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसवेपि नाऽसत्कायवादापत्तिः । ।
नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतां; किमभिव्यक्त्याख्या व्यवस्थाकल्पनेनेति चेन्न । “तर्ह्याव्याकृतमासीत्" इत्यादिश्रुति- भिरब्यक्तावस्था सतामेव कार्याणामभिव्यक्तिसिद्धेः । न च प्रागभावादिस्वीकारापत्तिः, तिसॄणामनागराद्यवस्थानामन्ये न्याभावरूपतयोक्तत्वात् । तादृशाभावनिवृत्त्यैव च कारण व्यापारसाफल्यसम्भवात् । अत्रायमेव हि सत्कार्यवादिनामसत्का- र्यवादिभ्यो विशेषः, यतैरुच्यमानौ प्रागभावप्रध्वंसौ सत्कार्यवादि- भिः कार्यस्यानागतातीतावस्थे भावरूपे प्रोच्येते , वर्तमानताख्या चाभिव्यक्त्यावस्था घटात् व्यतिरिक्तेष्यते, घटादेवस्थावत्वानुभवा- दिति । न च लीनव्यक्तेः पुनरुत्पादापत्तिः, नचेष्टापत्तिः प्रत्य- भिज्ञाद्यापत्तेरिति वाच्यम् । परेषामिवास्माकमप्यनागतावस्थायाः प्रागभावाख्याया अभिव्यक्ति हेतुत्वात् ।।
वस्तुतस्तु मूर्खाणां प्रयभिज्ञाऽभावेऽपि विवेकिनां तु प्रत्य- भिज्ञादि भवत्येव । तथा हि- तन्तौ नष्टे मृदरूपेण परिणामः मृदश्च कार्पास-वृक्षरूपेण परिणाम, तस्य फलतन्तुरूपेण परिणामः, एवं सर्वे भावा ज्ञातव्या इति ।
वेदान्तिनस्तु-अभिव्यक्तिर्जन्याऽजन्या चा । आद्ये अभिव्य- क्त्यन्तरानङ्गीकारक्षतिः, इष्टापत्तौ अनवस्थापत्तिः । तत्र च यथा नेष्टापत्तिस्तथोक्तं प्राक् । अन्ते कारणवैयर्थ्यं, तस्मादनिर्वचनीया उत्पत्तिरियाहुः ॥ ९ ॥