तदेवं प्रधानसाधनानुगुणं सत् कार्यमुपपाद्य यादृशं
तत् प्रधानं साधनीयं तादृशमादर्शयितुं विवेकज्ञानोप-
योगिनी व्यक्ताव्यक्तसारूप्यवैरूप्ये तावदाह---
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।।
सावयवं परतन्त्रं व्यक्तं, विपरीनमव्यक्तम् ।। १० ।।
हेतुमत्" इति ।व्यक्तं हेतुमत् , हेतुः कारणम् ,
तद्वत् , यस्य च य हेतुस्तमुपरिष्टाद्वक्ष्यति ॥
“अनित्यम्,' विनाशि, तिरोभावति यावत् ।।
"अव्यापि", सर्भ परिणामिनं न व्याप्नोति। कार- ऐन हि कार्यमाविष्टम् , न कार्येण कारणम् । न च बु- द्ध्यादयः प्रधानं वविषतीत्यध्यापकाः ॥
ननु सत्कार्यनिरूपणस्य साधर्म्येण प्रधानानुगुणत्वेऽपि कार्य-
स्य प्रधानवैधर्म्यनिरूपणं व्यर्थमित्याशंकायामाह । याद्दशभिति।
तथा च वैधर्म्यनिरूपणं बिना हेतुमदादिविलक्षणा प्रकृतिर्न मि-
द्ध्येदित्यर्थः ।
हेतुमदित्यादी उद्देश्यमुत्तरार्द्धस्थं व्यक्तपदं सम्बन्धनीयम् । कारणम् । आविर्भावे इति शेषः । उपरिष्टात्-प्रकृतेमहानित्यादौ । ध्वंसस्य स्वमतेऽभावादाह । तिरोभावीति । कदाचित्तिरो- भावशीलमित्यर्थः ।।
ननु महत्तत्त्वादेर्जगद्व्यापित्वाङ्गीकारात्कुतोऽव्यापित्वमिया- शङ्क्याह । सर्वमिति । तथा च महदादेः स्वस्वकारणाव्यापकत्वा- दुपचरितव्यापकत्वमियर्थः ।।
तदेवभिनयेनाह ! कारणेनेति । कार्यं व्याप्तं, अपादान- कारणं विहायान्यत्र स्वातन्त्र्येणानुपलब्धेः ।।
व्यतिरेकमाह । न कार्येणेति । परिणामात्मकक्रियायाः प्रधा- नेऽपि सत्त्वादाह । परिस्पन्दवदिति । शरीरादीनां परिस्पन्दसत्वेऽपि
२६