पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
व्यक्ताव्यक्तयोर्वैधर्म्यनिरूपणम् ।


उपात्तमुपातं देहं त्यजन्ति देहान्तरं चोपादत, इति संघ परिस्पन्दः । शरीर पृथिव्यादीनां च परिस्पन्दः प्र- सिद्ध एव ।

नानात्वे वा सत्त्वेऽपि शक्त्तेरसन्नविशयः कदाचित् इति कथं नासत उत्पत्तिः ? सर्वदाऽतिशयस्य सत्त्वे वा कथं न पूर्वोक्तदोपप्रसङ्ग: ? अतिशयस्य व्यक्त्यव्यक्तिभ्यामविरोध इति चेत् ? व्यक्त्यव्यक्तीं अप्यतिशयस्य सदातन्यौ न वा ? तत्र सदातनत्वे तदवस्थैव वि- रोधप्रसक्तिः । कदाचित्कत्वे वा कथं नासत उत्पादः ? कथमिति असत्कार्यबत्सत्कार्यमतेऽपि नियमानुपपत्तिः तथाहि प्रधानोपादा- नत्वाद्विश्वस्य प्रधानस्य चान्वयितया सर्वत्रैकरूपत्वादुपादानात्म- कत्वादुपादेयस्य कार्य जातस्य सर्वत्र सर्वदा सर्वथा सारदपतिना(?) इदमिह नेदमिदानीं नेदमिदमेव नेदमिति नियमो न स्यात् । कस्य चिदपि रूपस्य कथञ्चित्कदाचिद्विवेकहेतोरभावात् । सर्वत्र सत्त्वा- विशेषऽपि हेतु सामर्थ्यनियमादभिव्यक्तिनियम इति चेत् ? हन्ताऽसत उत्पश्या किमपराद्धं येन त्वस्यामपि नियमो न स्यात् । भवन तु सर्वेषां सर्वात्मकत्वादभिव्क्तिभेदानुपपत्तेश्च दुरधिगमो नियम इति उक्तप्रायम् । न चैवमसत एवोत्पत्तिर्भवत्विति वाच्यम् । अ- सत्त्वाविशेषात्तन्त्वादिभ्य एवं पटादयो न तु वीरणादिभ्य इति नियमानुपपत्तेः । न च कारणनियमादेव कार्यनियम इति वाच्यम् । कारणनियमे हेतोरभावात् । न च प्रागभाव एव नियामकः । ए- तस्यैव प्रागभावो नान्यस्येत्यत्र नियामकाभावात् । न च तदुत्प- त्त्या निर्णीयत एतस्यैव प्रागभावो नान्यस्येति वाच्यम् । अस- त्त्वाविशेषेण सर्वप्रागभावावस्थानापत्त्या सर्वस्योत्पत्त्यापत्त्या तस्यै- वोत्पात्तः कथमित्येवं विचार्य्यमाणत्वात् । शक्तिपि शक्ताश्रया शक्यविषयापि न शक्यसद्भावमेपेक्षते ज्ञानमिव ज्ञेयमिति ।