पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 "अनेकम्",'प्रतिपुरुषं बुद्ध्यादीनां भेदात् । पृथिव्या- द्यपि शरीरघटादिभेदेनानेकमेय ।

 “आश्रितम्”, स्वकारणमाश्रितम् । बुद्ध्यादिकाया- णामभेदे ऽपि कथञ्चिद्भेदविवक्षया इऽश्रयाश्रथिभावः, यथेह वने तिलका इत्युक्तम् ॥




 बुद्ध्यादीनां भेदादिति । अन्यथा एकमत्यापत्त्या विरुद्ध- प्रवृत्तिनिवृत्त्यादिकं ने स्यादित्यर्थः । नन्वनेकत्वं सजातीयानेक- व्यक्तिकत्वम् । सोजात्यं च तत्त्व विभाजकतावच्छेदकरूपेण । ता- इशानेकत्वं च प्रकृतावतिव्याप्तम् । प्रकृतेः प्रकृतिविभाजक कार्य्य- भिन्नगुणत्रयत्वेन सत्त्वाद्यनेकगुणब्याक्तकत्वात् । न च गुणाना- मनन्तत्वे मानाभावः । “महान्तं च समासृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्या वाऽपि न विद्यते इति असंख्ये- यतापरपर्यायानेकव्यक्तिकत्व प्रतिपादकविष्णुपुराणस्य मानत्वात् । मन्दतारादिभेदेन बुद्धिह्रासादिना चामन्त्यावश्यकत्वाञ्चेति चेन्न । प्रतिसर्गभेदेन भिन्नत्वरूपस्यानेकत्वस्थ विवक्षितत्वात् ।

 यत्तु अनेकत्वं स्वाश्रय प्रतियोगिकन्योन्याभावसमानाधिकर- णतत्त्वविभाजकोपाधिमत्त्वं, याति चेदं महदादिषु, महदादिप्रतियो- गिकान्योन्याभावेन महदन्तरादौ महत्त्वादेः समानाधिकरणत्वात् । प्रकृतौ तु न, प्रकृयन्योन्याभावस्य प्रकृतावसत्त्त्वात् । पुरुषे सत्त्वे- पि नातिव्याप्तिः । त्रिगुणत्वे सतीति विशेषणीयत्वादिति तन्न । उक्तरीत्या प्रधानेऽतिव्याप्तेः ।

 पुरुषः कालत्रयेऽप्यस्ति प्रधानं चेत्यादिप्रतीत्याऽऽश्रयत्वं तत्रा- तिव्याप्तमित्यत आह । स्वकारणमाश्रितमिति । स्वावयवेषु स- म्बद्धमित्यर्थः । नन्वाश्रयाश्रयिभावस्य भेद एव दृष्टत्वात्तव मते चावयवावयविनोरभेदात्कथमाश्रितत्वमियत आह । अभेदेऽपीति। कर्थञ्चिद्भेदविवक्षयेति । गुणजातिक्रियारूपवैधम्येविवक्षयेत्यर्थः ।