पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


सत्त्वरजस्तमसां परस्परं संयोगः, अप्रारभावान् ॥

 “परतन्त्रम्” बुद्ध्यादि । बुद्ध्या हि स्का्र्येऽहङ्कारे जनातितव्ये प्रकृत्यापुरोऽपेक्ष्यते, अन्यथा क्षीणा सती नालमहङ्कारं जनवितुमिनि स्थितिः । एवमहङ्कारादिभि- रपि स्वाकार्यजनने, इति सर्वं स्वकार्येषु प्रकृत्यापूरम- पेक्षते । तेन परां प्रकृतिमपेक्षमाणं कारणमपि स्वकार्यं जनने परतन्त्रं ठयकम् ॥

 "विपरीतमव्यक्तम्" --व्त्यक्तात् । अहेतुमन्नित्यं, व्यापि निष्क्रिपम्, यद्यप्युव्यक्तस्यास्ति परिणामलक्षणा क्रिया तथाऽपि परिस्पन्दो नास्ति ॥ एकमनाश्रितम




ति । अभावान् । बिभुत्वेनेति शेषः । बुद्ध्यादीनां पुरुषपारतन्त्र्यं निराकरोति । बुद्ध्या हीति । महतेत्यर्थः । प्रकृत्यापूरः । प्रकृते- रापूरः स्वस्वकारणीभूतावयवप्रचयः ।

 परतन्त्रं साक्षात्परम्परया वा प्रकृत्यधीनस्वरूपपरिणामकं भव- तीत्यपरे । तत्र युक्तिमाह । अन्यथेति । यथा नैयायिकमते उभाभ्यां परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्णुकैस्त्र्यणुकमित्यादिक्रमेण महापृथि- व्याधुत्पात्तर्न तु त्रिभिद्वर्य्णुकैरेव तथाऽत्राऽपि कारणचयोऽपेक्षित इत्यभिप्रायः । स्थितिः । स्वसिद्धान्तः । एवमन्त्यावयविघटादिपर्यन्तं ज्ञेयमित्याह । एवमति । उपसंहरति । तेनेति । हेतुमदादेर्विष्यं दर्शयति । व्यक्तमिति । विपरीतपदस्य ससम्बन्धित्वात्सम्बन्धि- नै दर्शयति । व्यक्तादिति । विपरीतं सन्दर्शयति । अहेतुमदि- त्यादिना । अहेतुमत् । कारणत्वावश्रान्तेस्तत्रैवाङ्गीकारात् । नित्यम् । अनुत्पत्तिमत्, धर्मलक्षणपरिणामसवेऽपि धर्मिणो नित्य- त्वात् । व्यापि । सर्वगतत्वात् । निष्क्रियम् । शान्तादिक्रियाशून्य- त्वात् । एक सजातीयभेदशून्यम्, निराश्रितम् कारणशून्यत्वात् । आलिङ्गम्, कारणाननुमापकं स्वाननुमापकं वा । तेनास्य पुरुषानु-