लिङ्गमनवयम् स्वतन्त्रमश्यक्तम् ॥ १० ॥
तदनेन प्रबन्धेन व्यक्ताव्यक्तयोर्थैधर्म्यमुक्तम् । स- म्प्रति तयोः साधर्म्यम्, पुरुषाञ्च वैधर्म्यमाह--
त्रिगुणमविवेक विषयः सामान्यमचेतनप्रसवधर्मि ।
व्यक्तं, तथा प्रधानम्, तद्विपरीतस्तथ च पुमान् ॥ ११ ॥
}}
"त्रिगुणम्” इति त्रयो गुणाः सुखदुःखम्मोहा अ-
मापकत्वेऽपि न हानिः । निरवयवम्, अकारणत्वात् । स्वतन्त्रम् ।
कार्यजनने स्वयं समर्थत्वात् । अदृष्टादेरपक्षणेऽपि स्वापादानानपे-
क्षणादियर्थः । यद्यप्येनते धर्माः पुरुषस्यापि तथापि गुणवत्वे सति-
ति विशेषणीयं तेन तत्र नातिव्याप्तिरत्यर्थः ।। १० ॥
इदानीं कारणानुमानोपयोगि कार्यकारण साधर्म्यनिरूपणे ऽवसरसङ्गतिं दर्शयितुं पूर्वोक्त मनुवदति । तदनेनेति । पुरुषस्य स्वकारणतया सिद्धिवारणायाह । पुरुषाच्चेति । तथा च न पुरुषस्य व्यक्ताव्यक्तयोर्मध्ये प्रवेश इत्यभिप्रायः । ननु त्रिगुण- मित्यस्य त्रयस्सत्वादिद्रव्यरूपा गुणाः यत्रायेति वा त्रिगुणं तत्र महदादिषु कारणरूपण सत्त्वादीनामवस्थानं गुणत्रयसमूहरूपेण तु प्रधाने वने वृक्षा इतिवत् । अथ वा प्रवृत्तिकार्यत्वेन गुणसम्वन्धात् महदादेः प्रकृतेश्च गुणसाम्यावस्थारूपत्वादित्यर्थसम्भवेऽपि तादृ-- शरूपेण व्यक्तस्याग्रहणादसम्भव इत्यत आह । सुखेति । न च व्यक्तस्य सुखाद्यात्मकत्वमप्रमाणकम् । सत्त्वं नाम प्रसादला- घचाभिषङ्गप्रीतितितिक्षासन्तोषादिरूपानन्तभेदं, समासतः सुखात्म- कम्, एवं रजोऽपि शोकादिनानाभेदं, समासतो दुःखात्मकम् ,एवं तमोऽपि निद्रादिनानाभेदं, समासतो मोहात्मकमिति पञ्चशिखाचा- र्योक्तेरेव मानत्वात् युक्तिस्त्वग्रे वक्ष्यते ।।
ननु न्यायवैशेषिकाभ्यामहं सुखीत्याद्यनुभवादिना सुखादी-