तेषामयमाशयः । भित्यादिव्यचहितस्य दूरस्थस्य वा विषय-
स्य प्रत्यक्षानुदयादन्वयव्यतिरेकाभ्यां प्रत्यक्षकरणत्वेन चक्षुरादि-
सभिकर्षस्य प्रत्यक्षात्पूर्वं वक्तव्यत्वात्तदावारत्वेन प्रत्यक्षात्पूर्वे
चक्षुरादिवदर्थोऽपि वक्तव्यः । घटज्ञानं पटज्ञानमियादिज्ञानानां ज्ञा-
नत्वाविशेषेऽपि वैलक्षण्यनिर्वाहाय ज्ञानेषु विषयविशेप एवावश्यम-
भ्युपेय इति वा । आद्ये किं चक्षुरादेर्जन्यममितिमात्रे कारणता
किं वा भ्रमप्रमासाधारणज्ञानमात्रे भ्रममात्रे वा ? नाद्यः । विषय-
विप्रतिपत्त्या विषयघटितप्रमाया एवासम्भवात् ।
एतेन भ्रमभिन्नत्वं प्रमात्वमित्यापि परास्तम् । न च प्रमात्वं जातिः, प्रत्यक्षत्वादिना साङ्कयत् । प्रमाया दुर्निरूप्यत्वान्न द्विती- योऽपि । तृतीये बहिर्विषयासिद्धेः । अत एव न चरमोऽपि । न च बहिर्विषयाभावे ज्ञाने वैरूप्यानुपपत्तिः । बहिर्विषयसत्वेऽपि ज्ञाने तत्सम्बन्धनिरूपनात् । निरूपणे तु तादात्म्यं समवायो वा विषयावषयिभावो वा भवेत् ? तत्र नाद्यो भेदे तु गवा- श्ववत् व्याघातात् । न द्वितीयस्तस्य वैशेषिकाधिकरणे निरस्तत्वा- त्, त्वयाऽनभ्युपगमाञ्च । न तृतीयः, अतीतानागतेषु तदस- म्भवात् , सम्बन्धस्योभयानरूप्यत्वेनैकस्याभावै तदसम्भवात् । त- स्माज्ज्ञाने ज्ञानाकार एव कश्चिद्विषयोऽभ्युपेयः । किं च विमतं ज्ञानान् भिद्यते तेन नियतं सहोपळम्भात् , यो येन नियतं सहोप- लभ्यते स ततो नातिरिच्यते, यथैकस्माचन्द्रमसो द्वितीयश्चन्द्रमा:, नियतं सहोपलभ्यते चार्थी ज्ञानेनेति । न चात्रानुकुलतर्काभावः । पद्ययं तद्व्यभिचारी स्यात्तर्हि तदभावरूपभेदव्यापकसहोपलम्भा- नियमप्रतियोगी न स्यात् ।
एतदेवोक्तमुत्तरमीमांसायां वाचस्पतिमिश्रैः[१]- निषेध्यो हि
१ "नाभाव उपलब्धेः, (२-२-२८) इति वेदान्तसूत्रे बाह्यार्थ-
भङ्गवादिमतोपन्यासावसरे श्रीवाचस्पातिमिश्रैरुक्तमेतत् ॥
- ↑ १