पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 ये त्वाहु-विज्ञानमेव हर्षविषादमोहशब्दद्यात्म- कम् , न पुनरितो ऽन्यस्तद्धर्मा' इति-तान् प्रत्याह-वि षय' इति । 'विषयो' ग्राह्यः, विज्ञानाद्बहिरिति यावत् ।




भदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नवश्विनौ नावश्यं महो- पलभ्येते कदाचिदभ्रापिधाने अन्यतरस्यैकस्यापलब्धेः । सोऽयमिह भेदब्यापकानियमाविरुद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं निवर्तयतीति । विवादाध्यासितं ज्ञानं न बा ह्यालम्बनं ज्ञानत्वात् स्वाप्रमायादिज्ञानवत् । ननु तव मते इन्द्रियार्थसन्निकर्षस्य निया- मकत्वाभावात्कदाचित् घटज्ञानं कदाचित्पटज्ञानमियादौ किं नि- यामकमिति चेत् ? इन्द्रियार्थसन्निकर्षे एव किं नियामकामिति पृष्ठे त्वयाऽप्यन्ततो मम मतासद्धानादिवामनोपरपर्यायापूर्वविशेष एव चाच्यस्तस्यैव मया ज्ञानभेदे हेतुत्वाङ्गीकारादिति ।

 इतः । विज्ञानात् । तद्धर्मः, विज्ञानधर्मः ।

 ग्राह्य इति । एतेषामयमाशयः, यदि विज्ञानमेव ग्राह्य- ग्राहकरूपं तदैकस्य ग्राह्यग्राहकभावानुपपत्तिः । नीलमहं जानामीति द्व्यायाकारग्रहणपत्तिश्च । यदि आकारयोः परस्परभेदवद्विज्ञाना- दपि भेदश्चेत्स एव तात्विको ग्राहकविज्ञानाद्भिन्नं वस्तु आक्षिपेत् । ग्राह्यग्राहकयोरनन्यत्वे च ग्राह्यमेव ग्राहकमेव वा स्यात् । मिश्रि- तयोरेकत्वात् समूहालम्बने नीलाकारं पीताकारं च स्यात् तद्- भिन्नाभिन्नस्य तदभिन्नत्वनियमात् । दृष्टे हि नीलाभिन्नज्ञानाभि- न्ननीलस्य नीलाभिन्नत्वं परस्परभिन्नाभ्यामकाराभ्यां विज्ञानस्य भेदाङ्गीकारे सिद्धं नः समीहितम् ।

 यदपि विषयाणां ज्ञानविग्रहत्वे सहोपलंभनियमः । तन्नाभिद- ध्महे, इयरेकदेशकालस्य सहशब्दार्थत्वे प्रत्युत भेदसाधकत्वेन विरुद्धत्वात् । न चासहानुपलभ्यमानत्वमेव सहशब्दार्थः । तर्हि रूपप्रकाशयोर्व्यभिचारः । घटादिप्रकाशस्य सावित्रादिप्रकाशैक्या-