पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 “अचेतनम्" । सर्व एव प्रधान बुद्ध्यादयोऽचेतना:, न तु वैनाशिकवत् चैतन्यम्बुद्वीरित्यर्थः ॥

 "प्रसवधर्भि"' । प्रसवरूपो धर्मो यः सोऽस्यास्ती- ति प्रसवधर्भि। प्रसवधर्मेति थरूडचे मत्वर्थीयः प्रस- घधर्मस्य नित्ययोगमाख्यातुम्[१] । सरूपविरूपपरिणा-




न्तरमाह । अचेतनमिति । अत्राचेतनत्वं परप्रकाशत्वं प्रकाश- भिन्नत्वं वा न तु परप्रकाश्यत्वम् । एतन्मते चेतनेऽपि बुद्धिगतस्वप्रति- बिम्बेन प्रकाश्यत्वाङ्गीकारेणैतस्य पुरुषवैधर्म्यानुपपत्तेः । न चैवमङ्गी- करणमप्रसिद्धम् , “प्रकाशतः तसिद्धौ कर्तृकर्मविरोध' इति सूत्रे प्रकाशकसम्बन्धेहि प्रकाशनमालोकादिषु दृष्टं स्वस्य साक्षात्सम्बन्ध स्वस्मिन् विरुद्ध इति । अस्मिन्मते तु बुद्धिवृत्याख्यप्रमाणाङ्गीका- रात्तद्वारा प्रतिविम्बरूपस्य स्वस्य विम्बरूपे स्वस्मिन्सम्बन्धो घटते यथा सूर्ये जलद्वारा प्रतिबिम्वरूपस्य स्वस्थ सम्बन्ध इति भाव इति भाष्ये चाङ्गीकारदर्शनात् ।।

 । ननु चैतन्यस्य प्रकाशकत्वं बुद्धिद्वारेच, अन्यथा तस्य व्या- पकत्वेन सर्वदा प्रकाशापत्तेस्तथा चावश्यकत्वेन बुद्धेरेव चैतन्यम- भ्युपेयमिति वैनाशिकमतदूषणेन बुद्धौ साधर्म्यव्याप्तिं परिहरति । न तु वैनाशिकवदिति । तन्मातनिरासे हेतुः प्रकृतिकार्यत्वेन बुद्धेरचेतनत्वानुमानम् ।

 प्रसवधर्मीत्यत्र प्रसवोऽन्याविर्भावहेतुत्वं परिणामो वा तद्रूपो धर्मो यस्येत्येवरीत्या सामञ्जस्ये मत्वर्थीयप्रत्ययवैयर्थ्यमित्याशङ्ख्याह । प्रसवधर्मेतीत्यादि । सरूपं सुखदुःखमोहाकारता, विरूपं महत्त- त्त्वाद्याकारता ताभ्याम् , क्षणमप्यपरिणम्य गुणा न तिष्ठन्तीत्यर्थः । न चैवं धार्मिणः क्षणिकत्वापत्तिः । अभिव्यक्तितिरोभावावस्थावि-



  १ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने॥ सम्बन्धेऽस्ति-
  विषक्षायां भवन्ति मतुपादयः'इति शाब्दिकस्मृतेरिति भावः ॥