पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
व्यक्ताव्यक्तयोः साधर्म्यनिरूपणम् ।

माभ्यां न कदाचिदपि वियुज्यते इत्यर्थः ।।

 व्यक्तवृत्तमव्यते ऽतिदिशति, “तथा प्रधानम्” इति । यथा व्यक्तं तथाऽव्यक्तमित्यर्थः ।।

 ताभ्यां वैधर्म्यं पुरुषस्थाऽऽह-"तविपरीतस्तथा च पु- मान्” इति ॥


 स्यदेतत्-अहेतुमत्त्वनित्यत्वादि प्रधानसाधर्म्यम- स्ति पुरुषस्य, एमनेकत्वं व्यक्तसाधर्म्यम्, तत्कथमुच्य- ते ‘तविपरीतः पुमान्' इति ? अत आह- "तथा च” इति । चकारोऽप्यर्थः यद्यपहेतुमत्त्वादिकं साधर्म्यम् तथाऽप्यत्रैगुण्यादि वैपरीत्यमस्त्येवेत्यर्थः ॥ ११ ॥

 त्रिगुणमित्युक्तम्, तत्र के ते प्रयो गुणाः, किं च




शेषस्यैव क्षणिकत्वाङ्गीकारातू । व्यक्तवृत्तम् । कार्यधर्मम् । अतिदिशतीति । तत्प्रयोजनं तु प्रधानानुमानम् । तद्विपरीतः- व्यक्ताव्यक्ताभ्यां विलक्षणः चितिशतेरपरिणामित्वात् ।

 ननु अहेतुमत्त्वानेकत्वादिसाधर्म्यसत्वे तद्विरुद्धरूपवैधम्र्य तत्र न सम्भवतीत्याशङ्कते । स्यादेतदिति । अहेतुमत्त्वाने कत्वादिसा- धर्म्याविरोधिनोऽपि त्रैगुण्यविरोधितदभावस्य सत्वेन तद्विपरी- तत्वमपि सम्भवतीत्यभिप्रायेण समाधचे । चकार इति । तथा चैत्यस्य तुत्सदृशोऽपत्यर्थः ॥ ११ ॥

 गुणत्रयनिरूपणे सङ्गतिं दर्शयितुं यितुं पूर्वोक्तमनुवदति । त्रिगुण- मित्युक्तमिति । गुणत्रयस्य तद्धटकत्वरूपानुकूलत्वसत्त्वेनोपो- द्धातसङ्गतिरिति सूचितम् । तल्लक्षणं तूक्तं वृद्वैः-

 चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुद्धाः' इति ।

 अस्यार्थस्तु प्रकृतसिद्ध्यर्थं प्रकृतोपपादकाविषयिणिं किंम-: स्यौपादकामति चिन्तां जिज्ञासामुपोद्धातमुपद्धातसङ्गतिनिर्वाहि- कां विदुरित्यर्थः । तथा च तादृशाजिज्ञासामादायोपपादकत्वे आन-