लक्षणमित्यत आह--
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ॥
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥
“गुणाः परार्थाः “सत्वं लघु प्रकाशकम्” (कारि-
न्तर्याभिधानप्रयाजकजिज्ञासाजनकज्ञानविषयत्वरूपसङ्गतिलक्षणस-
मन्वय इति भावः । अनुकूलत्वं च क्वचिद्घटकत्वं क्वचित् ज्ञानसम्पा-
दकत्वम्, तत्र क्वचिद्धटकोपस्थापकतया क्वञ्चिञ्च प्रमाणसहकारितया ।
एतञ्चन्यत्र प्रसिद्धम् । तत्रेत्यन्न घटकत्वं सप्तम्यर्थस्तथा च तद्धटकी-
भूता गुणाः के ते इत्यर्थः । (त्रय इयत्रत्वंराशत्रये(?)ऽन्वेति । एतेन
महान्तं च समातृयेत्यादिविष्णुपुराणाविरोधोद्भावनं परास्तम् ।)
ननु प्रधानाख्यानां गुणानां जगत्कारणले एव व्यक्तस्य त्रिगुणत्वं सम्भवति, तच्च न सम्भवति तथा हि गुणानामन्योन्यवै- धम्यानङ्गीकारे ऐक्यरूप्याद्विचित्रकार्यानुपपत्तिस्तदङ्गीकारे चान्यो- न्याक्रियां विना मिलनाभावेन पूर्वोक्तदोषानुद्धारः । मिलनेऽपि परस्परविरोधे कार्यानुत्पत्तिरविरोधे कार्यवैचित्र्यानुपपत्तिस्तदव- स्थैवेत्याशङ्कापहारपरत्वं मूलस्याऽऽह । किञ्च तदुपलक्षणमिति ।
ननु गुणानां परतन्त्रप्रसिद्धानां रूपादीनां जगदुपादानत्वा- भावादाह । परार्था इति । सवादिद्रव्यत्रयेषु पुरुषोपकारक- वाद्गुणप्रयोगो न तु मुख्य इत्युक्तं प्राक् ।
ननु गुणानामेकपदोपात्तत्वा "न्मात्रास्पशास्तु कौन्तेय शीतोष्ण- सुखदुःखदाः" इत्यादिवत्प्रीत्यादीनां गुणत्वावच्छेदेनान्वयः स्यात्स च न सम्भवति प्रीत्यप्रतिविषादाद्यैर्गुणानामन्योन्यवैधर्म्यमिति गुणव्यापकत्वावरोधितव्याप्यत्वरूपवैधर्म्यप्रतिपादकसूत्रावरोधात् । सूत्रे आदिपदग्राह्यास्तु पञ्चशिखाचार्योक्ताः पूर्व प्रदर्शिताः । ने च निर्युक्तिकत्वात्सूत्रविरोधो न दोषायेति वाच्यम् । भगव-