का १३) इत्यत्रं च सत्त्वादयः क्रमेण निर्देष्यन्ते । तद-
नागतावेक्षणेन तन्त्रयुक्त्या वा प्रीत्यादीनां यथासं-
ख्यं चेदितव्यम् ।॥
एतदुक्तं भवति -प्रीतिः सुखम्, प्रात्यात्मकः सत्व गुणः, अप्रीतिर्दुःखम्, अप्रीत्यात्मको रजोगुणः , - विषादो मोहः, विषादात्मकत्तमोगुण इत्यर्थः ।
ये तु मन्यन्ते न प्रीतिदुःखाभावादतिरिच्यते, एवं दुःखमपि न प्रीत्यभवादन्यदिति, तान् प्रति आत्मग्रहण- म् । नैतरेतराभावाः सुखादयः, अपि तु भावाः, आत्म- शब्दस्य भाववचनत्वात् । प्रीतिरात्मा भाव येषां ते प्रीत्यात्मानः । एवमन्यदपि व्याख्येयम् । भावरूपता
द्गीतायामन्योन्यवैधर्म्यस्य दर्शनात् सांख्यीयभाष्ये च युक्तेदैर्श- नादित्याशङ्कायां सत्त्वं लघुप्रकाशकमियत्र भिन्नपदोपात्तानाम नागतानामनुसन्धानेन शाखयुक्त्या चात्रापि प्रत्येकमन्वयः सम्भ- वतीत्याह । सत्वमित्यादिना तत् सत्वं गुण इत्यादि एतञ्च यथा- संख्यमित्यत्रान्वेति ।
एतेन प्रत्यादीनामन्वयापत्त्या यथासंख्यमिति पाठे कल्पय- न्तीति परास्तम् ।।
ननु प्रीतिः सुखमप्रीतिः सुखाभावः, प्रीतिंदुःखाभावोऽप्री- तिर्दुखमित्यभ्युपगमेऽपसिद्धान्तः इत्यतस्तदर्थमाह । एतदुक्तं भवतीति । मोहत्वं नाम मिथ्याप्रतिपत्तित्वम् । तेषां मोहः पापीयान्नमूढस्येतरोत्पत्ते रिति गौतमसूत्रभाष्ये मोहो मि- ध्याप्रतिपत्ति लक्षण इति दर्शनात् । सूत्रं तु पूर्वं व्याख्यातम् । लः धुत्वे सति प्रकाशकत्वं सत्त्वस्य लक्षणमिति बोध्यम् । तत्र हेतु- माह । आत्मशब्दस्यति । द्वन्द्वान्ते श्रूयमाणो यः स प्रत्येक सम्व- ध्यते इति व्युत्पत्तिमाश्रित्याह। प्रीतिरात्मेत्येवंरीत्यर्थः । आत्मे-