चैषामनुभवसिद्धा । परस्पराभावात्मकत्वे तु परस्परा
श्रयापत्तेरेकस्धाप्यसिद्धेरुभयासिद्धिरिति भावः ।।
स्वरूपमेषामुक्त्वा प्रयोजनमाह-“प्रकाशप्रवृत्तिनि- यमार्थाः ' इति । अत्रापि यथासंस्व्धमेव । रजः प्रवर्त कत्वात् सर्वत्र लधु सत्त्वं प्रवर्तयेत्, यदि तमसा गुरुणा न नियम्येत । तमोनितन्तु क्वचिदेव। प्रवर्तवतीति भवति वति तमा नियमार्थम् । ।
प्रयोजनमुक्त्वा क्रियामाह-“अन्योन्याभिभवाश्रय- जननमिथुनवृत्तयश्च' इति । वृत्तिः क्रिया, सा च प्रत्येक
ति ग्रहणस्य भावरूपसूचकत्वेऽपि तत्र युक्तैरभावात्तन्न सम्भव तीत्यत आह । अनुभवसिद्धेति । अन्योन्यानिरूप्यत्वेनानुभ चादित्यर्थः । परस्पराभावात्मकत्वे दोषमाह । परस्परेति । पर- पराश्रयस्य ्दूषकतावीजमाह । एकस्येत्यादिना । परस्परसि द्ध्यधीनासिद्धिकत्वेनोभयासिद्धिप्रसङ्ग इति भावः ।।
ननु बुद्धावनाकलितस्योत्पत्यदर्शनात् चेतनानाधिष्ठितस्य का येविशेषजनक क्रियाविशेषाश्रयत्वस्यादर्शनात् । गुरुत्वाभावे च कार्यद्रव्यस्य वाय्वादिवत्सर्वत्र प्रसङ्ग स्यात् प्रधानस्य तव मते चेतनानधिष्ठित्वांगीकारात् । प्रकाशमानचेतनस्य निःसङ्गत्वे- न प्रकाशकत्वासम्भवाचेत्याशङ्कावारणपरत्वं मूळस्याऽऽह । रजः प्रवर्तकत्वादित्यादि तमो नियमार्थमित्यन्तेन । तथा च बुद्धावनाकलितस्यांकुरादेश्चेतनानधिष्ठितस्य पयसः सूर्याग्न्या देशोत्पत्तिक्रिया प्रकाशकत्वदर्शनेन प्रधानात्मकगुणैरेव सर्वव्यव- हारनिर्वाहे तादृशकल्पनायां मानाभाव इत्यर्थः । तमोनियतम् । तमसा प्रतिबद्धम् । क्रिया। परिणामः, चनान्योन्यमिति समुच्चीयते तेनान्योन्याभिभववृत्तय इत्यादि सङ्गच्छते । अत्र वृत्तिलाभे बीजे. माह । एषामन्यतमेनेति । तथा चोदभुतानुभूतत्वं कायाभिमु-