पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 अन्योन्याश्रयवृत्तयः । यद्यप्यधाराधेयभावेन नायमर्थो घटते, तथाऽपि यदपेक्षया यस्य क्रिया से तस्याऽऽश्रयः । तथा हि सत्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशनोपकरोति, रजः प्रकाशनियमावा- श्रित्य प्रवृत्येतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति ।

 'अन्यान्यजननवृत्तयः' । अन्यतमोऽन्यतममाश्रित्य जनयति । जननं च परिणामः, स च गुणानां सदृश- रूपः । अत एव न हेतुमत्त्वम्म्, तत्त्वान्तरस्य हेतेरसम्भ- चात्, नाप्यनित्यत्वम्, तत्त्वान्तरे लयाभावात् ।




इति सत्वरजस्तमसामाधाराधेयत्वासम्भवादन्योन्याश्रयत्वं नास्ती- त्याह-यद्यपीति । कथं तेर्ह्यार्थो घटते इत्यत् आह-तथाऽपीति । पदपेक्ष्या , सवाद्यपेक्षया, सवसहकारिणो यस्य रजआदेः क्रिया परिणामः । स सत्त्वादिः । तस्य रजआदेश्रय इयर्थः ॥

 नन्वेवं वृत्तिपदं व्यर्थमिति चेन्न । तद्विनाऽन्योन्याश्रयत्वासम्भ- वादित्याह-तथा हति । सत्त्वं स्वस्वपरिणामद्वारा रजस्तमोभ्या- मुपकृतमेव तौ स्वपरिणामद्वारोपकरोतीत्याह-सत्त्वमिति । सत्वं कर्त्तृ । आश्रित्य। सहायी कृत्य । स्वयं प्रकाशनोपकरोति । सह- कारीभवतीत्यर्थः ।।

 ननु अन्यतमैन स्वकार्यजननेऽन्यतमस्य सहकारित्वेऽपि कार्ये वैचित्र्यानुपपात्तिः । कपालेन घटजनने दण्डादेः सहकारित्वेऽपि कपालगतवैचित्र्यं विना घटादौ नीलपीतादिवैचित्र्याभाववदित्या- शयेन चाह । अन्योन्यजननवृत्तय इति । तथा च प्रतिसर्गे मुख्य शान्तादिपरिणामाभावेऽपि प्रीत्यादिसदृशत्रिपरिणामाङ्गीकारेण वै- चित्र्योपपत्या दृष्टान्तवैषम्यामित्याभिप्रायः ।।

 ननु नित्यानां गुणानां कुतौऽन्योन्यजननमित्या शङ्क्याह-जन-