‘प्रकाशप्रवृत्तिनियमाथः' इत्युक्तम्, तत्र के ते इत्थम्भूताः कुतश्चेत्यत आहे-
सत्वं लघु प्रकाशकमिष्टम् , उपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः, प्रदीपच्चार्थतो वृत्तिः ॥ १३ ॥
“सत्वम्” इति । सत्वमेव लघु प्रकाशकमिष्ठं सां
ख्याचार्यैः । तत्र कार्योदुमने हेतुर्मो लाघवं गौरवप्र-
तिद्वन्द्धि , यतोऽग्नेरूध्र्वज्वलनं भवति, तदेव लाघवम् क-
स्यचित्तिर्यग्गभने हेतुर्भवति, यथा वायोः । एवं करणा-
नां वृत्तिपटुत्वहेतुर्लघवम्, गुरुत्वे हि मन्दानि स्युरिति
सत्त्वस्य प्रकाशात्मकत्वमुक्तम् ॥
प्यन्वेति । अन्यथोपलम्भाभावेऽपि संयोगद्वियोगोऽपि स्यात् ।
न चाजसंयोगे मानाभावः । मानस्य पूर्वमुपपादितत्वात् ॥१२॥
संङ्गतिं प्रदर्शयितुं पूर्वोक्तमनुवदति । प्रकाशति । अत्रापि पूर्वोक्तसङ्गतिरेव बोध्या । सत्त्वमेवेति । एवकारेणान्यस्मिन् ल- घुत्वप्रकाशकत्वब्यवच्छेदः । तथा च लघुन्वादिधर्मेण सर्वासां स- त्त्वव्यक्तीनां साधर्म्यं पृथिवीव्यक्तीनां पृथिवीत्वेनेव सत्त्वव्यक्ती- नामकजातीयोपष्टंभादिना वृद्धिहासादिकं युक्तमित्याशयः । एवं च गुरुत्वादिथर्मेण सर्वासां तमोव्यक्तीनां साधर्म्यम् ।
न च मूलकारणस्यानन्तव्यक्तिकत्वे वैशेषिकमताविशेषाप- त्तिरिति वाच्यम् । शब्दस्पर्शादिराहियेन विशेषात् । तदुक्तं चिं ष्णुपुराणे---
शब्दस्पर्शविहीनं तु रूपादिभिरसंयुतम् ।
त्रिगुणं तज्जगद्यानिनादिप्रभवाप्ययम्' ।
इति । लघु । लघुत्ववत् । कुत इत्वस्योत्तरं वदन लघुत्वशब्दार्थमाह-तत्रति । तथा