पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

ति । दृष्टमेवैतत्, यथा वर्शितलेऽनलविरोधिनी, अथ मिलिते सहानलेन रूपप्रकाशलक्षणं कार्यं कुरुतः, यथा च वातपित्तश्लेष्माणः परस्परविरोधनः शरीरधारणल- क्षण कार्यकारिणः, एवं सत्वरजस्तमांसि मिथोविरुद्धा- न्यप्यनुवर्त्स्यन्ति स्वकार्यं करिष्यन्ति च । “अर्थत” इति पुरुषार्थत इति यावत्, यथा च वक्ष्यति--

 पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्"
     इति ॥ ( कारिका ३१ )

 अत्र च सुखदुःखमोहाः परस्परविचारोधिनः स्वस्वा- नुरूपाणि सुखदुःखमोहात्मकान्येव निमित्ताने कल्प- यान्ति । तेषां च परस्परमभिभाब्याभिभावकभावान्ना- नात्वम् । तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना




दीनाम् । प्रागेव । दुरापास्तैव । तत्र दृष्टान्तमह दृष्टमेतदित्या- दिना। तथा च परस्परप्रधानगौणभावेन दृष्टानुसारात्तथा कल्पने न किञ्चिद्धाधकमित्यर्थः । पुरुषार्थत इति । व्याख्याते पूर्वम् ।।

 अर्थपदस्य पुरुषार्थपरत्ववर्णनं स्वकपोलकल्पितमित्यत आ- ह-यथा वक्ष्यतीति । गुणानां प्रीत्याद्यात्मकत्वे युक्तिमाह-अ- अ चेति । स्वानुरूपाणीति । तथा च विवादास्पदानि बाह्या- नि सुखदुःखमोहात्मकसामान्यपूर्वकाणि सुखाद्यात्मकतयाऽन्वी- यमानत्वात्प्रमीयप्रमाणत्वाद्वा यद्यदात्मकत्वेनान्वीयमानं प्रमीयमा- णं वा तत्तदुपादानकं भवति यथा मृदात्मकत्वेनान्वीयमानं प्र- मीयमाणं वा घटादि मृदुपादानकं दृष्टम् । यदीदं तदुपादानकं न स्यात्तर्हि तदात्मनाऽन्वीयमानं न स्यादित्याद्यनुकूलतर्को विपक्क्षे बाधकः ।

 हेत्वसिद्धिं परिहरति । एकैवेति । तथा च विमतानि ब्राह्या-