पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
गुणत्रयनिरूपणम् ।


नि सुखाद्यात्मकानि नद्धेतुत्वान् बुद्ध्यादिवत् । न चानुकूळतर्का- भावः । यस्यान्वयव्यतिरेको सुखादिना दृश्यते तसयैव सुखाद्युपा- दानत्वं कल्प्यते, तस्य निमित्तन्यं परिकल्यान्यस्योपादानत्वकल्पने कारणद्वयकल्पनागौरवात् । तथा च लाघवमेवानुकूलतर्कः ।

 “तत्सन्तु चेतस्यथवाऽपि देई । सुवानि दुःखानि च किं ममात्र’ इति मार्कण्डेयपुराणवचनाच्च ।

 ‘याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपाञ्चालानां ब्राह्म- णानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठा:(बृद्द०३-९-१६) । 'किं देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति’ स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति, कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति, चक्षुषा हि रूपाणि पश्यति कस्मिन्तु रूपाणि प्रतिष्ठितानीति हृदये इति होवाच, हृदयेन हि रूपाणि जानाति हृदये ह्ये च रूपाणि प्रतिष्ठितानि भवन्तीत्येवमै वैतद्याज्ञवल्क्य, (वृ६०३-९-२०) इत्यादिवृहदारण्यश्रुत्या सर्वेषां बाह्यानां बुद्धिकार्यन्वावधारणेन सुखाद्यात्मकत्वस्य सूचनात् । न चायं श्रुत्यर्थो न भवतीति तु न शङ्कनीयम् । तथा हि जनकः सम्राट् बहुद- क्षिणेनायजत् तत्र च नियन्त्रिता कुरुपाञ्चालानां ब्राह्मणा सम- वेता बभूवुस्तं समुदायं दृष्ट्वा एतेषां ब्रह्मिष्ठः क इति वा जिज्ञासा बभूव तन्निर्णयार्थं पञ्चपञ्चपादवदैकैकशृङ्गगोसहस्रं गोष्ठे स्थाप्य ब्राह्मणान्नुवाच भवंंतो यो युष्माकं ब्राह्मिष्ठः स एता गाः स्वगृअं न- यतु इत्युक्ते ते ब्राह्मणाः ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न संवृत्तास्त- तो याज्ञवल्कयः स्वाशिष्यमुवाच हे सामश्रव एता गा उद्गमया- स्माद्गृहानित्युक्तः उत्कान्तवान् ततः एकैकपधानानामस्माकं म- ध्ये कथमयं ब्रह्मिष्ठेपणस्वीकरणनात्मनो वह्मिष्ठतां प्रतिज्ञातवा- निति चक्रुधुस्ततोऽश्वलादिप्रश्नानन्तरं साङ्कल्यः पप्रच्छ । किं ब्रह्म विद्वान् सन्नेवमभिक्षिपसि ब्राह्मणानिति पृष्ठे ततो याज्ञवल्क्य उवा-