पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


च ब्रह्मविज्ञानन्तावदिदं मन सदेवाः समातिष्ठा दिशाविषयं विज्ञा- नम् । न चदं न निरुपाधिब्रह्मविषयं विज्ञानमिति वाच्यम् । सप्र- तिष्ठा दिशोऽहं वेदेति वचनात्सर्वमपि हृदयद्वारा जगदात्मत्वेनावग- म्य स्थितो मुनरिति प्रतिभानात् । प्रतिज्ञानुसारित्वाञ्च किं देवतो ऽस्यामिति ब्रूयात् । अत एव “स यस्तान्पुरुषान्निरुह्य प्रत्युद्यात्यक्रा- मत्तन्त्वोपनिषदं पुरुषं पृच्छामि तञ्चन्मे न विवक्ष्यसि मूर्धा ते विपति- ष्यतीति तंऽह न मेने शाकल्यस्तस्य ह मूर्द्धाविपापातापि हास्य प- रिमोषिणोऽस्थीन्यपजहरुरन्यन्मन्यमानाः'(बृह० ३-९-२६)इत्यादि श्रवणमपि सङ्गच्छते । इदं तु शारीरः पुरुष इत्यादीन् पुरुषान् नि- रुह्य पूर्वोक्ताष्ट्रचतुष्कभेदेन लोकस्थितिमुपपाद्य पुनः प्राच्यादिद्वारेण प्रत्युह्य हृदये संहृत्वात्यक्रामत् हृदयद्यात्मत्वमुपाधिधर्मं त्यक्त्वा स्वेन रूपेण व्यवस्थितो यस्तं त्वां विद्याभिमानिनमित्येव व्याख्ये- यम् । तथा च सर्वोपाधिविनिर्मुक्तमात्मस्वरूपं ब्रह्म स प्रतिष्ठा इत्यत्र विवक्षितं तञ्च तेन शाकल्येन न विज्ञानमित्यभिप्रायः । अस्यां प्राच्यां का देवता दिगात्मनस्ताविठ्ठाऽस्ति कया च देवतया प्राचीदिग्रूपेण सम्पन्नस्तमित्यर्थः । सदेवा इत्युक्त सप्रतिष्ठा इत्य-. स्योत्तरमाह-आदित्य इत्यादिना ।।

 ननु सूर्यस्य चक्षुषि प्रतिष्ठितत्वं कथमिति चेत् ? शृणु, ‘च- क्षोः सूर्योऽजायत चक्षुष आदित्य’ इत्यादिमन्त्रब्राह्मणेभ्यश्चक्षो- स्तत्कारणत्वश्रवणात् । रूपेषु चक्षुषोऽधिष्ठितत्वे स्वयमेव हेतुमाह । चक्षुषा हीति । तथा च यद्यञ्जकं तयङ्ग्यजातीयारब्धं दृष्टुं लोके यथा रूपव्यंजङ्कः प्रदीपो रूपसजातीयारब्धः । सजात्यं तेजस- वादिनानारूपम् । वेदान्तिनां मते चात्र रूपशब्देन भौतिकस्वरूप- स्य ग्रहणाद् भूतत्वेनैव साजात्यम् । एवं हृदयेन हि रूपाणि जा नातीत्यत्रापि बोध्यम् । न च सर्वव्यञ्जके आत्मनि व्यभिचारः । 'तस्य व्यञ्जकत्वानङ्गीकारात् । व्यञ्जकत्वं च तदाकारता तरुया-