पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
गुणत्रयनिरूपणम् ।

आत्मन्यसम्भवान् ।

 न च ‘रचनानुपपत्तेश्च नानुमान' मिति ब्रह्ममीमांसामूजे घटश- रावादय मृदात्मनाऽन्वीयमाना मृदात्मकसामान्यपूर्वक भवितु- महन्तीति सांख्यिमतमुपन्यस्य न हि बाह्याध्यात्मिकानां भेदानां सु- खदुःखभोहात्मकतयाऽन्वय उपपद्यते सुखदुःखादीनामान्तरत्वप्रती- तेः, शब्दादीनां चातद्रूपत्वप्रतीतेस्तन्निमित्तत्वप्रतीतेश्च । । शव्दाद्यवि- शेषेऽपि च भावनाविशेषात्सुपादिविशेषोपलब्वेरिति श्रीमद्भगव- च्छङ्कराचार्योक्तविरोध इति वाच्यम् । उक्तश्रुतिविरोधात् । विष यसम्पर्कजन्यबुद्धिपरिणामरूपसुखादेश्चैतन्ये प्रतिबिम्वितस्य बुद्धि- गतचैतन्यप्रतिबिम्बेन चैतन्यविशेषणतया गृह्यमाणस्य कल्पतरुक- रोक्तबुद्ध्यैक्पाध्यस्तचैतन्यधर्मत्वरूपान्तरत्वोपपत्तेः ।।

 न चाध्यात्मिकानां सुखाद्यात्मकत्वेऽपि वाह्यानां सुखाद्यात्म- तयाऽप्रतीतेर्न तेषां सुखाद्यात्मकत्वयिति वाच्यम् । अविवकिन तथा भतीत्यभावेऽपि सुखाद्यात्मकबुद्धिकार्यतया विवेकिनां तथा प्रतीतिसम्भवात् ‘सर्वं दुःखमेव विविकिन' इत्युक्तेश्च । पितृसुख- हेतुपुत्रसुखादौ निमित्तत्वस्य व्यभिचाराञ्च ।।्

 यदपि शब्दाद्यविशेषेऽपि भावनाविशेषात्सुखादिनिशेषोपल- ब्धेरिति तन्न । भावना वासना संस्कारः तस्या अदृष्टवशादभि- व्यक्ताया मनुष्यशरीरोचिताया अस्मै मानुषी एव रोचते न सुनी इति निर्वाहकत्वेऽपि मानुषी एव कदाचिन्न रोचते कस्यचित्स- र्वदैवेति निर्वाहकत्वाभावात् ।

 यत्तु यदि पुनरेताः सुखादिस्वभावाः भवेयुस्तत्वभावत्वा- द्धेमन्तेऽपि चन्दनः सुखः स्यात्, न हि चन्दनः कदाचिद्वन्दनः । तथा निदाघेऽपि कुङ्कमपङ्कः सुखो भवेत् । न ह्यप्तौ कदाचिदकु- ङ्कुमषङ्क इति । एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि षाणमृतां सुखः स्यात् । न ह्यसौ कांश्चित्प्रत्यकण्टक इति । तस्मात्



 २९