पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

स्वामिन सुखाकरोति, तत्कस्य हेतोः १ स्वामिनं प्रति तस्याः सुस्वरूपसमुद्भवात् । सैव स्त्री सपत्नीदुःखाकरो- ति, तत् कस्य हेतोः ? ताः प्रति तस्या दुःखरूपसमुद्भ- वात् । एव पुरुषान्तरं तामविन्दमानं सैव मोहयति, तत् कस्य हेतोः ? तम्प्रति तस्या मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याख्याताः । तत्र यत् सुखहेतुः तत् सुखात्मकम् सत्वम् , यद् दुःखहेतुस्तद् दुःखात्मकं रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः । सुख- प्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः, स- हदर्शनात् । तस्मात् सुखदुःखमोहैरिव विरोधिभिरविरो- धिभरकैकगुणवृत्तिाभिः सुखप्रकाशलाघवैन निमित्त




सुखादिस्वभावा अपि चन्दनकुङ्कमादयो जातिकालावस्थाद्यपेक्ष- या सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीय- म् । तस्मात्सुखादिरूपसमन्वयो भावानामसिद्ध इति तन्न । जाति- कालावस्थादेरस्माभिरपि सहकारिताङ्गीकारादिति ।

 ननु सुखदुः खमोहैरिव सुखप्रकाशलाघवादैरपि निमित्तभेदा अनुमायेरन्न तु केवलं सत्वं इत्याशङ्क्य सुखप्रकाशलाघवादीनां सह दर्शनेन निमित्तभेदोन्नयनासंभव इति समाधत्ते-सुखप्रकाशला- घवानामत्यादिना । एकस्मिन् बुद्धितत्वोपादानसत्वांशे अ- विरोधिभिरेकैकगुणवृत्तभिः । नातिरिक्तनिमित्तभेदाः-प्रकृ- यतिरिक्तधर्मादिनिमित्तभेदाः ।

 ननु सुखप्रकाशलाघवानां नौमित्तिकानामेकास्मिन् बुद्धितत्वे एककाले समुद्भवदर्शनाद्विरोधाभावेऽपि निमित्तभेदः किं न स्या- दित्याशंक्योपसंहारद्वारा निमित्तभेदमपाकरोति--तस्मादिति । विमताः सुखप्रकाशलाघावा न भिन्ननिमित्तका विरोधित्वाद्य- न्नैवं तनैवं यथा सुखदुःखमोहाः न च तथेमे तस्मान्न तथेत्यर्थः ॥