पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
अविवेकित्वादिसिद्धिः ।

तत्कारणं सुखदुःखमाहात्मकं प्रधानमव्यक्तं सिद्धं भवति ॥ १४ ॥

 स्यादेतत्-'व्यक्तात् व्यकमुत्पद्यते’ इति कणभ- क्षाक्षचरणतनयाः, परमाणवो हि व्यक्ताः, तैर्द्व्यणुकादि- क्रमेण पृथिव्यादिलक्षणं कार्यं व्यक्तमारभ्यते । पृथिव्या- दिषु च कारणगुणक्रमेण रूपाद्युम्पत्तिः । तस्मात् व्यक्ता- त व्यक्तस्य तद्गुणस्य चात्पत्तः कृतमद्दष्टचरेणाव्यक्ते- नेत्यत आहे---



त्यत्र वृत्तित्वबोधकगतपदं च विरुद्धं तदात्मकत्वादब्यक्तस्य, त- दुक्तं कपिलाचार्यैः-सरवादीनामतद्धर्मत्वं तद्रूपत्वा’दितीति चेन्न । सत्वादेरग्रे साधनीयत्वेनाऽऽद्यदोषद्वयाभावात् । महदादि कार्यें प्रकृति पुरुषभिन्नत्वात् परिच्छिन्नत्वाद्वा घटादिवदित्यादिप्रमाणसि- द्धत्वेन तृतीयदोषाभावात् । न च हेत्वसिद्धिः पुरुषरूपत्वे भो- ग्यत्वानुषपत्तेः । प्रकृत्यात्मकत्वे तु विनाशित्वाभावेन मोक्षानुपप- त्तेः ॥ नीलो घटो घंटे रूपमित्यादिप्रतीतिनिर्वाहायाभेदेऽपि कथं चिद्भेदविवक्षया भेदसत्वान्न चरमदोषोऽपि । अत एव स्वकार- णगतसुखदुःखमोहात्मना भवितव्यामित्यत्राऽऽत्मग्रहणम् ॥ १४ ॥

 ननु सुखात्मककार्येण कारणस्याव्यक्तस्य पूर्वार्यायां साधि- तत्वात् परिमाणादिना पुनः साधने पौनरुक्त्यापत्तिरित्याश- ङ्कायां कणभक्षादिमतविरोधेन साधितमप्यसाधितमिव भवतीति न्यायेन पुनः प्रसङ्गमङ्गत्या परमनिराकरणं विना प्रकृत्यर्थो न सिध्यतीत्युपद्धातसङ्गत्या चहुसाधनहेतुकामार्य्या मवतारयति । स्यादेतदिति । विरोधं दर्शयति । व्यक्ताद्व्यक्तमुत्पद्यते इतीति । “सदकारणवन्नित्यं तस्य कार्यं लिङ्कं कारणाभावात्का- यभाव' इति कणादाचायः ॥ सूत्रार्थस्तु सत् सत्तायोगि, न का-