णुपरिमाणं भवेत् , तथा च परिमाणस्य स्वसजातीयत्कृष्टपरिमाणा- रम्भकत्वनियमेन तजन्यस्याणुतरत्वप्रसङ्गेन कायाप्रत्यक्षत्वप्रस- ह्वात् । नैयायिकं प्रति सिद्धसाधनतापत्तेश्च । संयोगविशेषस्यैषव प- रिमाणहेतुत्वे उक्तदोषाभावेऽपि प्रत्यक्षत्वप्रतिबन्धकतावच्छेदक-.. धर्मवत्वमेव सूक्ष्मत्वमिति निरुक्त्यवश्यकत्वे दृष्टान्ताप्रसिद्ध्या- पत्तेः । अत एव मिश्रैस्तथा नाभिहितम् । इत्थं च विवादाध्यासि- ता भेदा अव्यक्तकरणकारणकाः अभिव्यक्तकार्यत्वात् कूर्माङ्गा- दिवत् घटादिवद्वा ।
न च भेदशब्दस्य महदादिभूतान्तपरत्वे भूतानां प्रसिद्धत्वे ऽपि महत्तत्वाहङ्कारपञ्चतन्मात्राणामप्रसिद्ध्याऽप्रसिद्धिरिति वाच्यम् । प्रकृतेर्मंहानियादौ तेषां साधनीयत्वात् । तथा च महत्त्वपर्यन्तपक्षे हेतूनां साध्यं सिद्धयत् परमाव्यक्तं मूलकारणं सिद्ध्यतीत्यभिप्रा- यः । एवमविभागादनभिव्यक्तकार्यत्वापरपर्यायात् ।
ननु अव्यक्तपदस्य रूपवत्तदितरसाधारणपरत्वेन[१] रूपादिच- तुष्टयवत्कार्यं तद्वदुपादनकमिति नियमेन च तत्र रूपचतुष्टयसिद्ध्या- पत्या नैयायिकं प्रति सिद्धसाधनतापत्तिरिति चेन्न । वाय्वादौ रूपोत्पत्तिवारणायापाकजरूपवत्कार्यद्रव्यत्वावच्छिन्नं प्रति रूपवद्र्- यस्य कारणत्वापेक्षया लाघवात्कारणगतरूपमपाकजतत्कार्यग- तरूपमारभते इत्येव नियमो वाच्यः, स च न सम्भवति हरिद्राचू र्णादिरुपद्व्यारब्धद्रव्ये रक्तरूपोत्पत्त्या हरिद्रादिगतरूपयो रूप- नुत्पादकत्वेन व्यभिचारात् ।।
न च हरिद्रादिगतरूपेणैव तद्गतरूपाप्तत्तिरिति वाच्यम् ।रूपा- णां शुक्लादिसजातीयरूपजनकत्वनियमेनतथा ऽसम्भवात् ॥ चित्र- रूपोत्पत्यङ्गीकारोऽपि न सम्भवति । अत्र तथाऽनुपलब्धेः । प्रधा-
१ इन्द्रियग्राह्यतदितरसाधारणपरत्वेनेत्यधिकः क्वचित्पुस्तके पाठः॥
- ↑ १