पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

व्यक्तताया अन्यस्य शक्ती प्रमाणमस्ति । अयमेव हि सिकताभ्यस्तिलानां तैलापादानानां भेद यदेतेष्वेव तै- लमस्त्यनागतावस्थं न सिकताविति ॥

सत्कार्यवादो निरर्थक इथत आह-अयमेवहीति । भेदः--शक्तिम- त्वरूपो पादानत्वरूपः साधारणकारणादिव्यावर्तको विशेषः । तथा- चाभावापेक्षया लाघवाद्भाव एवं कल्प्यते इति भावः । न च "ते ध्यानयोगानुगत अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढा’ ' मिति श्रुतिरे- वातिरिक्त शक्तौ मानमिति वाच्यम् । प्रकृतिकारणापेक्षयाऽतिरिक्त शक्तेरप्रतिपादनात् तथाहि ये ध्यानलक्षणयोगमभुगतास्ते देवस्य चेतनस्यात्मशक्तिं स्वात्मभृतां यथा राज्ञः प्रधानो महाकार्यकारि- वादात्मभुतस्तथा भोगादिसम्पादकत्वादियमपि । पुनः कीदृशीं स्वगुणैः स्वस्य गुणैस्सत्वरजस्तमोलक्षणैमहादादिभिर्निगूढां नितरां गूढामव्यक्ततां प्राप्तां । अभिव्यक्तिगुणावधुरप्रकृतिस्वरूपस्य द्रष्टु- मशक्यत्वान्निगूढामित्युक्तं तथाच कार्यकारणयोरभेदादनभिव्य- क्तकार्यमेवशक्तिरिति ॥

 यदपि न तस्य कार्यं करणं च विद्यते न तत्ममश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविक ज्ञानबलक्रि- या च । तदपि न । तथाहि यदि सर्वकार्यकारित्वादुत्कृष्ट का- चित्तन्निष्टा शक्तिरङ्गी कृता चेतर्ह ’न तस्य कार्य'मित्यादिविरोधाप- त्तिः । तदविरोधाय तद्भागसम्पादकत्वात्तदीयेति वक्तव्यं । एवं सति परा व्यापिका विविधानेककार्यकर्त्री देवात्मशक्तिमित्यत्र या कारणत्वेनोक्ता सैवेयं । शक्तिमतः कारणत्वकल्पना ऽपेक्षया शक्तः कारणत्वकल्पने लाघवाञ्च शक्तिरेच कारणम् । तस्मात् कारणाति- रिक्तशक्तिनास्त्यवेति सिद्धम् । ज्ञानपदसमभिव्याहारात् वलक्रया पदाभ्यां कृतीच्छे गृह्येते तथाचैतत्रितयं स्वाभाविक स्वप्रयत्नानधीनं- बुद्ध्याश्रितमपि स्वस्मिन् प्रतिबिम्बितमियर्थः ॥