यदपि ‘एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकारा-
णायचेतन मेव प्रकृतिरिति निरस्तम् । चेतनाधिष्ठिताचेतनप्रकृति-
कत्व सादृश्योपपत्ते'रिति तन्न । 'अधिकं तु निविष्टं चेन्नतद्धानि'-
रिनि न्यायेनाधिकस्य मिद्धावपीश्ह्टस्याचेतनप्रकृतिकत्वस्य सिध्या-
ऽर्थान्तरापत्तिरूपदोषाभावात् । न चैव स्वसिद्धान्तभङ्गापत्त्या
न्यायसंकोचावश्यकत्वेऽत्र न्यायापतृत्तावर्थान्तरापत्तिरिति वा-
च्यम् । चेतने प्रयत्नस्याग्रे निरसनीयत्वेनाचेतने चेतनाधि-
ष्ठितत्वासंभवात् । यत्तु ‘न विलक्षणात्वादस्य तथावं च शब्दा’
दित्यादौ 'किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्त-
व्यं किंमत्यन्तिकं, यत्किञ्चिद्वेति, आद्ये दोषमाह-अत्यन्तसारूप्ये
च प्रकृतिविकारभाव एवं प्रलीयेत । द्वितीये आह-अथोच्येतास्ति
कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो
गोमयादीनां च वृश्चिकादिष्विति, ब्रह्मणोऽपि तर्हि मत्तालक्षणः
स्वभावः आकाशादिष्वनुवर्तमानो दृश्यते' इति तन्न । अचेतनत्वेन
सुखदुः खाद्यात्मकत्वेन गुणवद्द्रव्यत्वेन वासादृश्यस्य विवक्षित्वात् ।
त्वया च ब्रह्मणि अचेतनत्वाद्यनङ्गीकारात् ।
एतेन विलक्षणत्वेन च कारणेन ब्रह्मपकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मणः स्वभावस्याननुवर्त्तनं विलक्षणत्वमभिप्रेयते उत यस्य कस्यचिदथ चैतन्यस्येति वक्तव्यम् । प्रथमे विकल्पे समस्तप्रकृ- तिविकारोच्छेदप्रसङ्गो नह्यसत्यतिशये प्रकृतिर्विकार इति वा संभव- ति । द्वितीये चासिद्धत्वम् । दृश्यते हि सत्तालक्षणो ब्रह्मणःस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् । तृतीये तु दृष्टान्ताभावः । किं हि यश्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मवादिनं प्रत्यु दाह्रियेत समस्तस्य वस्तुजालस्य ब्रह्मप्रकृतिताभ्युपगमादिति ब्रह्म- मीमांसाभाष्यं निरस्तम् । अभ्युपगमस्य नियुक्तिकत्वेन भ्रमत्वात् । घटादेर्मृदाद्युपादानकत्वदर्शनात् उपादानातिरिक्तघटसामग्रियां स-
३१