पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्यामपि स्वर्णघटाद्यार्थिना स्वर्णादिग्रहणात् ब्रह्मणोऽग्रहणाञ्च ।

 नचाभ्युपगमस्य नियुक्तकत्वेऽपि ’सर्वं खल्विदं ब्रह्मे’ त्यादि- श्रुतिप्रमाणकत्वान्न भ्रमत्वमिति वाच्यम् | युक्ति प्रधानावसरे श्रुति- प्रदर्शनस्याच सराभावात् । तस्य ‘तज्जलानिति शान्त उपासीते'त्यु- पासनाविधिशेषत्वेन तत्र तात्पर्याभावात् । उभयत्र तात्पर्यकल्पने वाक्य भेदापत्तेः । ‘मायां तु प्रकृतिं विद्या’ दिति श्रुतिविरोधाञ्च ।।

 यत्तु ‘नच जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावादिति दृष्टा- न्तोऽस्तीति वाच्यम् । अनादित्वस्योपाधित्वात् । नच ध्वंसे साध्या- व्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृति- कत्वात्त् । अभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति । तन्न । तृतीये तु दृष्टान्ताभाव इति भाष्यस्य दत्तजलाञ्जलितापत्तेः' । नचा- त्रैव भाव्यतात्पर्यमिति वाच्यम् तत्र-तात्पर्यग्राहकमानाभावात् । नच अविद्याया आध्यासिकम्बन्धं विना चैतन्यभास्यत्वानुपपया- ऽध्यस्तत्वावश्यकत्वे चैतन्येनान्वितत्वसम्भवेन दृष्टान्तत्वासम्भवा- द्भाष्यमादेयमेवेति वाच्यम् । एवं सत्यविद्यावदिति तदुक्तेरना- देयतापत्तेः ।

 यदपि स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यं तस्य सृष्ट्य- थै प्रवृत्तेरनुपपत्ते, गुणानां किल साम्यावस्था तुत्वानां प्रलय- स्तदा न किञ्चित्कार्यं भवति प्रलयाभावप्रसंगात्, किन्त्वादौ सा- म्यच्युतिरूपवैषम्यं भवति ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गीभावो भवति । तस्मिन् सति महादिकार्योत्पादनात्मिका प्रवृत्तिस्तदनुपपत्तेस्तया विविधकार्य- न्यासरूपरचनानुपपत्तेः ‘प्रवृत्तेश्च' इति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयमयं दोषस्तु कल्पत्रेयसाधारण इति तदपि न । जगतो ऽव्यक्तोपादानकत्वानुमाने स्वतन्त्रस्याचेतनस्य सृष्ट्यर्थं प्र- वृत्त्यनुपपत्तेर्यभिचारादिविधया दोषत्वासम्भवात् । चेतनस्या-