पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
अव्यक्तप्रवृत्तिप्रकारः ।

त्स्वभावाव्यक्तकारणानि, यथा मृद्धेमपिण्डसमनुगता घटमुकुटायो मृद्धेमपिण्डाव्यक्तकारणका इति-कार- णमस्त्यव्यक्तं भेदानामिति सिद्धम् ॥ १५ ॥

 अव्यक्तं साधयित्वा अस्य प्रवृत्तिप्रकारमाह-प्रच- तते त्रिगुणतः' इति । प्रतिसर्गवस्थायां सत्त्वं रजस्तम- श्च सदृशपरिणामानि भवन्ति । परिणामस्वभावा हि गुणा नापरिणमय क्षणमप्यवतिष्ठन्ते । तस्मात् सत्वं




 सिद्धेरिति नवनानामद्वैतानन्दस्वामिनामुक्तिः परास्ता । 'भिन्ना- नां सरूपता समन्वय' इति मिश्रोक्तस्य तद्भिन्नत्वे सति तदात्मक- त्मकत्वरूपसमन्वयस्याज्ञानात् । सामान्यतस्तदुपदानकत्वसाधने कारणकार्यविभागादियादिना पौनरुक्त्यापत्तेश्च । अन एव मिश्रैः ‘तत्स्वभावाव्यक्तकारणांनी'त्युक्तम् । दृष्टान्तमाह-यथेति । उपसं- इति । कारणमस्तीति ॥ १५ ॥

 नह्येकस्मात्कार्योत्पतिर्दृश्यते । नहि चेतनानविष्ठतस्य च प्र- वृत्तिः सम्भवति कुलालाद्यनाधिष्ठितस्य विचलितमृदादेः घटशरा- वाद्यभिमुखपिण्डादिप्रयदर्शनात् तदधिष्ठितस्यैव च दर्शनात् अ- दृष्टसिद्धेर्दष्टानुसारित्वादियाशङ्कायामुपजीवकत्वसंगतिसूचनाय पू- र्वोक्तमनुवदन्प आर्यामवतारयति-अव्यक्तं साधयित्वति । त्रिगुणात्मके प्रधाने बहुत्वसत्वादाद्यं दोष परिहरति-प्रतिसर्गा- वस्थायामिति । प्रतिसर्गः महदादिविशेषकार्यानाधारकालः । महदादिकार्यलक्षणपरिणामापेक्षया बैंलक्षण्यमाह-सदृशेति । सदृशं सरूपपरिणाम मियर्थः । पुरुषनैरपेक्ष्येण द्वितीयदोषं परिहर- ति । परिणामस्वभावका इति । तत्र तसस्तृतीयार्थत्वं दर्शयन् प्रवर्तते इत्यस्य परिणामपरत्वमाह-तस्मादित्यादिना ।। यदुक्तङ्कुलालाद्यधिष्ठितस्यैव प्रवृत्तिदर्शनादिति । तत्र किङ्कुला- लशब्देन कुलालदेहातिरिक्तश्चेतनोऽभिमतः किंवा देहः किं वोभ-