पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
अव्यक्तप्रवृत्तिप्रकारः ।

हितसर्पापिरिहारकत्वाञ्च । तत्र साध्याव्यापकत्वाति वाच्य- म् । प्रमाजन्यन्यत्वावच्छिन्नमाध्यव्यापकवस्य तत्रापि सत्वात् । शरीरसमवेतक्रियात्वस्योपाधित्वाञ्च । नच शरीरावयवक्रियायां सध्याव्यापकत्वमिति वाच्यम् । अनारब्वशरीरावयवक्रियायां साध्यसत्त्वात् । आरब्धशरीरावयवेषु शरीरनिष्टक्रियातिरिक्तक्रि- यायां मानाभावात् । अतएव चलत्सु यत्किञ्चिदङ्गेषु शरीरं चलती- तिप्रत्ययः । न च शिरश्चलति, न शरीरमिति वाधकप्रर्तातिसत्वा्ञ्च शरीरं चलतीति प्रत्ययो भ्रम इति वाच्यम् । विनिगमनाविरेहेणो- भयर्भ्रमत्वकल्पनापेक्षया शिरश्चलतीत्यस्य शिरोऽवच्छेदन शरीरं चलति, न शरीरं चलतीत्यस्य सववियवच्छेदेन शरीरं न चलतीति कल्पनाया लघीयस्त्वात् ।

 वस्तुतस्तु हस्तपादादिक्रियातिरिक्तशरीरक्रिया नास्त्येव । तथा हि निश्चलं हस्तपादादौ शरीरचलनादर्शनात् । चलत्सु च चलन- दर्शनात् । आरब्धशरीरावयवक्रिययैव निर्वाहेऽतिरिक्तक्रियाक- ल्पनायां मानाभावः । तथा च तत्क्रियैव शरीरक्रिया तत्र चेनत- स्य साध्याव्यापकत्वम् । तथा च परमाणुकर्म न प्रयत्नजन्यं भ्रमा- जन्यचष्टेतरक्रियात्वात् शरीरावृत्तिक्रियात्वाद्वा विरुद्धप्रयत्नवतोऽपि जलादिना वाह्यमानशरीरवृत्तिक्रियावत् ज्वलनादिक्रियावद्वा । वि- पक्षे परमाणुकर्मणो हिताहितप्राप्तिपरिहारानुकूलत्वापत्तिबाधिका शरीरजन्यन्वापत्तिर्वा । भ्रमाजन्यप्रयत्नजन्याक्रियात्वस्य तद्व्यायाप्य- त्वात् । तेन भ्रमजन्य क्रियायां न व्यभिचारः ।

 यत्तु । चेष्टात्वस्य भोक्तृप्रयत्नजन्यत्वव्यापकत्वात् शरीरेतर क्रियायाश्च चेष्टात्वाभावाद्भोक्तृप्रयत्नजन्यत्वमेव निवर्त्तते, क्रियामात्रे तु प्रयत्नजन्यत्वं स्यादेकेति । तन्न । भ्रमजन्यक्रियायाश्चेष्टात्वाभावेऽपि भोक्तृप्रयत्नजन्यत्वसत्त्वेन चेष्टत्वस्य भोक्तुप्रयत्नजन्यत्वव्यापक- त्वाभावात्तन्निवृत्त्या तन्निवृत्त्यसम्भवाच्चेष्टात्वस्य भ्रमाजन्यभोक्तृ- ।