पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

प्रयत्नजन्यत्वव्यापकत्वेऽपि प्रयत्नजन्यत्वव्यापकत्वपरीहारेण तद- भावेन प्रयत्नजन्यत्वाभावसाधने दोषाभावात् ।।

 क्रिश्च यदीश्वरः कत्तों स्यात्तर्हि शरीरी स्यात् रागादिमांश्च स्यात् । यदीश्वरश्चेतनः स्यात्तर्ह्यानित्यज्ञानादिमान् स्यादिति । नचे- ष्टापत्तिः शरीरस्यापि जन्यत्स्यान्योन्याश्रयाद्यापत्तेः । सर्गाद्या काले मानुषादिव्यक्तिविशेषाभावात्मानुपादिव्याक्तिविशेषरचनानु। पपत्तिः । तादृशनियमानङ्गीकारें इदानीमपि मानुषस्याद्यभावे- ऽपि मानुषद्युत्पत्त्यापत्तेः । पुरुषप्रयत्नं विनैव घटादेरूत्पत्यापत्ते- श्च । नच कुळालादरपि तत्कर्तृत्वान्न दोष इति वाच्यम् । भुवना- देरपि तन्निदर्शनेन द्विकर्तृत्वापत्तेः । नचेष्टापत्तिः अनवस्थापत्तेः । यथा प्रत्यक्षपरिदृष्टकुलालादिकर्त्तृकेऽपि घटादौ तावदेकोपपद्यमानो- त्पादै चेतनान्तरमीश्वरस्तत्त्कर्तारं कुलालमधिष्ठातुं कल्पते तथेश्वर- मप्यधिष्ठातुमीश्वरान्तरमेव तामत्यनवभ्थेति ।।

 किंचेश्वरमयत्नस्याजन्यत्वे कृतमश्विरस्य ज्ञानेन चिकषाप्रय- त्नोप्तादानुपयोगना । कृतं च चिकीर्षया प्रयत्नाप्तादानुपयोगिन्या । नच प्रयत्नवत्ज्ञानचिकीर्षयोः साक्षात्कार्योत्पादनाङ्गत्वम् । अथा- नित्यौ ततस्तयोरुत्पत्तिकारणं वाच्यम् ।

 ननु निखं ज्ञानभवात्पत्तिमूलकारणमस्ति, तकिपपरेण कार- ऐन अहो बत प्रमादो यदयमात्मनः संयोगविशेषासमवायि- कारणाविछाप्रयत्नौ तमन्तरेण ज्ञानमात्रादेव भवत इसपि वक्तु- मध्यवसितः । तथा सत्ययमन्तरेणापि परमाणन्कार्यं जनयेत् । नच सन्त्येबास्य मुक्तात्ममनोभिः संंयोगास्तेन तत्सहायस्तत्र चि- कार्षा प्रयत्नप्रपश्चं युगपत्प्रसूते तत्कार्योपजननायेतिवाच्यम् । तेषामनधिष्ठितानां कार्यजनकत्वे तेष्वेव व्यभिचारान् तेषां चेतना- धिष्ठितत्वस्य च प्रयत्नमन्तेरणासम्भवात् । इन्द्रियजन्यानदर्शनं निरपेक्ष्य स्वादृष्टचरस्य नित्यज्ञानस्य कल्पनासम्भवश्च । भोक्तुः