पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
अव्यक्तप्रवृत्तिप्रकारः ।


सत्वरूपतया रजो रजोरूपतया तमस्तमोरूपतया प्रति- सर्गावस्थायामपि प्रवर्तते । तादिदमुक्तम् “त्रिगुणतः” इति

प्रयत्नासम्भवे तद्दष्टान्तेन प्रयत्नजन्यत्व साधनासम्भवाच्च ।।

 तथाहि भक्तृप्रयत्नो जन्या, न जन्य वा । नाद्य स्त्वयैवानभ्यु- पगमात् । नान्न्यः । ज्ञानम्यान्ममनःसंयोगद्वारा प्रयत्नजन्यवात् प्रयत्नस्य च चिकीर्षाद्वारा ज्ञान जन्यत्वादन्योन्याश्रयचक्रकानवस्थाप त्तेः । पुरातदशावच्छेदेनात्ममनःसययोगे सुषुप्तिरिति नत्र सिद्धांत स्तथाच यदा सुषुप्तिस्तदात्मनि ज्ञानाभवेन जन्यप्रयत्नाद्यसम्भवा- त् । पयलं विनैव मनसि बहिर्देशावच्छेदनान्ममनःसंयोगानुकूलां क्रियामभ्युपेत्य यन्नाद्यभ्युपगमे तेनैव क्रियायां हेतोर्व्यभिचारित्वाप- तेः । नच जीवनयोनियत्नादेव तत्र क्रियेति वाच्यम् । श्वासप्रश्वा- सान्यथानुपपया कल्प्यमानस्य श्वासाद्यतिरिक्तफलकल्पने माना भावात् । तथा कल्पने तेनैव सर्वकार्यनिर्वाहे तदतिरक्तस्य जी- वप्रयत्नस्येश्वरप्रयत्नस्य च वैयर्थ्यापत्तेश्च ।

 कल्प्यमानोऽप्यजन्यो जन्यो वा, नाद्यो मरणाभावप्रसंगात् । सु- पुप्तिसमये तदभावेन तदुत्तरमव्युत्थानापत्त्तेश्च । एवमुदासीनादिदशा- त्तरमपि बोध्यम् । नचेश्वरप्रयत्नात्तत्र क्रियेति वाच्यम् । अन्योन्याश्र- यात् । क्वचित्प्रयत्वं विना क्रियाङ्गीकारे व्यभिचारापत्तेरलमतिजल्प- नेन । नच जीवनयोन्यदृष्टस्य य् प्रतिवन्धकत्वाद्दोषः । तेनैव सर्वप्रवृत्ति निर्चाहे तदतिरिक्तप्रयत्नवैयर्यदोषानिवृत्तेः । नान्यः । तत्प्रागभा- वादिसमये मरणप्रसंगात् । तदिदमुक्तमिति । तत् तस्मात् यतो गुणाः क्षणमप्यपरिणम्य न तिष्ठन्ति तस्मादित्यर्थः । त्रिपदेन पर- स्परानिरपेक्षतया परस्परविलक्षणपरिणाम इति सूचितम् । अतएवा- ग्रिमसमुदायपरिणामभेदान्न पौनरुक्त्यम् । ननु स्वस्वलक्षणपरिणा- माभ्युपगमेऽपि विरूपो महदाद्येकरपो धर्माख्यपरिणामो न स्यान्नि मित्तान्तराभावादित्याशङ्कायां समुदयादिति मूलमवतारयति-प्रवृ-


  ३२