पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

लवण तिक्तकषायकटुतया विकल्पते, एवमेकैकगुणस मुवद्भात् प्रधानगुणाः[१] परिणामभेदात् प्रवतेय- न्ति । तदिदमुक्तम्-" प्रतिप्रतिगुणाश्रयविशेषात्" ।

एकैकगुणाश्रयेण यो विशेषस्तस्मादित्यर्थः ।। १५ ॥ १६ ॥




किञ्चिकोजीवरफलम् ।।

 तिक्तकषाय इयादि ॥ कालभेदेन यथायोग्येष्वन्वयः। विक- ल्पते विविधाकारेण कल्पते परिणमते इत्यर्थः ।॥

 दार्ष्टान्तिकं विवरीतुमाह-एवमिहि । अन्यतमस्य प्राधान्ये हेतुमाह-एकैकगुणसमुद्भवादिति । समुद्भवो नाम स्वस्वमुख्यका- र्यव्यवहितपूर्वक्षणवृत्युच्छून्यताख्यपरिणामविशेषः । प्राधानगुणं- उद्बुद्धगुणं । अप्रधानगुणत्वे हेतुमाह-आश्रित्येति । तदाश्रय त्वन्तत्तत्कायानुकूलपरिणामवत्वम् । अप्रधानगुणा अभिभूतगुणाः स्वस्वमुख्यकार्यक्षमा इत्यर्थः । एतनैकेन प्रधानगुणेन जनितस्य त्रैगुण्यं न स्यादिति,परास्तम् । कार्यस्य गुणत्रयपरिणामत्वाङ्गीकारा- त् । परिणामभेदान्-सत्वादिपरिणामविशेषान् । प्रवर्तयन्ती- ति । प्रधानं गुणं प्रवर्तते अप्रधानाः प्रवर्त्तयन्ति सहकारिणो भव- न्तीत्यर्थः । सहकारित्वं च परिणामद्वारैव नतु ताटस्थ्येन । अत एव परिणामभेदादिति क्वचित्पाठः । उक्तार्थपरत्वं चतुर्थचरणस्याह- तदिदमुक्तमिति । तत्तस्मात् यस्माद् गुणावमर्दं विशेषमाश्रित्य- प्रधानगुणः प्रवर्तते तस्मादित्यर्थः ॥ एकैकेति । एकैकगुण आश्र- यो यस्य स एकैकगुणाश्रय एता दृशो यो विशेषः गुणविमर्दाख्य- परिणामविशेषस्तस्मादित्यर्थः ॥ १६ ॥

 ननु पुरुषोऽस्तीति स्वरूपतः पुरुषसाधनं न सम्भवति चैतनपु- रुषलोपे जगदान्ध्यप्रसङ्गेन भोक्तर्यहंपदार्थे सर्वेषामविवादात् । अव्य-



    १ प्रधानगुणमाश्रित्याप्रधानगुणाः परिणामभेदानित पाठः
  टीकाकारसंमतोऽत्र बाध्यः ।