स्यादतत्-शयनासनादयः संघाताः संहरशरीराद्य
तत्तु यथाश्रुतमेवान्न्यावयविसाधारणम् । इतर साहित्येनार्थ क्रियाका- रित्वस्यैव संहत्यकारिताशब्दार्थत्वात् । पुरुषस्तु विषयप्रकाशरूपा यां स्वार्थक्रियायां नान्यढपेक्षते नित्यप्रकाशरूपत्वात् । पुरुषस्थार्थ- सम्बन्धमात्रे बुद्धिवृत्त्यपेक्षणात् । सम्वन्धस्तु नासाधारणार्थक्रि- येत्याहुः । तथाविधमृत्रस्येदानींमनुपलम्भात्तद्भाष्यादावव्यख्या- तत्वाञ्चोक्तरीत्या निर्वाहे साक्षात्कथनस्यानुपयागाञ्चेत्य परे ।
अत्रच विपक्षे 'नवा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति' इत्यादिश्रुतेर्बांधोऽनुकूल- तर्कः । अन्यच्च सुखादिमत्प्रधानादिकं यदि स्वस्य सुग्वादिभोगार्थं स्यात्तदा स्वस्य साक्षात्वज्ञेयत्वे कर्मकर्तृविरोधो नहि धर्मिभानं विना सुवादिभाते सम्भवति अहं सुखी दुःखीत्येवं सुखाद्यनु- भवादिति ॥
अपि च संहन्यमानानां बहूनां गुणानां तत्कार्याणां चनेक- विकाराणामनेकचैतन्यगुणकल्पनायां गौरवेण लाघवादेक एवं चित्प्रकाशरूपः पुरुषः सर्वसंहतेभ्यः परः कल्पयितुं युज्यते इति । नचैकपुरुषाङ्गीकारे पुरुषबहुत्वं सिद्धमत्युत्तरग्रन्थविरोधः पुरुषब- हुत्वाङ्गीकारे तूक्तलाधवं न सम्भवतीति वाच्यम् । पुरुषाणाम्बहु- त्वेऽपि विषयाणां पुरुषापेक्षया बहुत्वेन लाघानपायादिति ।
संघातवादी तौष्टिकः सिद्धसाधनमाशङ्कने–स्थादेतदिति । नचाचार्योपदिष्टं स्वयं विमृश्य तत्वनिर्णयमम्भवात्तवाजिज्ञासुना विदुषा अन्यैः सह विवादो निरर्थको 'विप्रं निर्जित्य वादत' इत्या- दिनिन्दाश्रवणाञ्चेति वाच्यम् । पक्षप्रतिपक्षविमर्शमन्तरा असम्भा- वनादिनिरसनहेतुनिर्णयासम्भवात् । द्वेषादिना ब्राह्मणजये प्रवृत्त- स्यैव दोषात् । अन्यथानादिभवसंचितदुरितेनाखर्वगर्ववतामात्मतत्व- निर्णयाभावान्मोक्षाद्भ्रश्यमानानामात्मतत्त्वनिर्णयेन मोक्षकामस्य