त्वात् तेनापि सघातान्तरार्थन भवितव्यम्; एवं तेन तेनेत्यनवस्था स्यात् । न च व्यवस्थाया सत्यामनवस्था युक्ता, कल्पनागौरवप्रसङ्गात् । न च ' प्रमाणवलन क- ल्पनागौरवमपि मृष्यत' इति युक्तम्, संहतत्वस्य पारार्थ्यमात्रेणान्वयात् । दृष्टान्तदृष्टसर्वधर्मानुरोधेन त्वनुमानमिच्छतः सवानुमानच्छेदप्रसङ्ग इत्युपपादितं न्यायवार्तिकतात्पर्यटकायामस्माभिः ।
ञ्च ॥ वीजाङ्करादिवदन्यथानुपपत्या सा स्वीकार्येत्याशंक्याह-
नच व्यवस्थायामिति ॥ कल्पनागौरवेति । अव्यवस्था
कल्पनमेव गौरवमियर्थः ॥
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुवहून्यपि ।।
अदृष्टशतभागोऽपि न कल्प्यो निष्यमाणकः ॥
इति न्यायेनाशङ्ख्या
ह-नच प्रमाणबलेनेति । प्रमाणं च संघातस्य स्वेतरसंधा-
तर्थत्वनियमः । अत्र प्रमाणाभावमाह-सहतत्वस्येति । पा-
रायमात्रेणेत्यत्रमात्रपदेन संघातव्तवच्छेदः । अन्वयात् व्याप्त-
त्वात् तथाच न संघातस्य स्वेतरसंघातार्थत्वानियम इत्यर्थः-।
अत्र दृष्टान्तानुरोधेन तथा नियमकल्पने बाधकमाइ-
दृष्टान्तति । दृष्टान्ते निश्चितसाधनवति दृष्टा ज्ञाता ये सर्वे धर्माः
साधनसमानाधिकरणत्वेन साधनव्यापकादिसाधारणास्तदनुरोधेन
तत्पक्षपातेन दुर्ग्रहेणानुमानं तत्सर्वधर्मविषयकानुमित्सतः, सर्वानु-
मानस्यानुमितिमात्रस्य, पक्षे महानसादिनिष्ठ[१])महामितिनसत्वक-
रीषवह्निमहानसीयवन्ह्यादिवाधेन लोपप्रसङ्गादिति प्रघट्टकार्थः ।
ननु संघातस्य पाराय॑मात्रेणान्वयादित्यत्र मात्रपददानमसंग- तं संघातपारार्थ्यस्यापि व्यापकत्वसम्भवात् । एतेनानुमानमात्रो
-
१ अत्र महामलिनत्वमिति पाठेनं भवितव्यामितिभाति, पुस्तक
द्वयदृष्टानुरोधेन तु यथास्थित एवं पाठः स्थापितः ।
- ↑ १