ष्टारमन्तरेण दृश्यता युक्ता तेषाम् । तस्मादस्ति द्रष्टा दृश्यबुद्याद्यतिरिक्तः, स चा ऽऽत्मेति । भोक्तृभावा- तु द्रष्टुभावात् , दृश्येन द्रष्टुरनुमानादित्यर्थः । दृ श्य- त्वं च बुद्ध्यादीनां सुखाद्यात्मकतया पृथिव्यादिवद्- नुमितम् ॥
इतश्चास्ति पुरुष इत्याह-कैवल्यार्थं प्रवृत्तेश्च इति । शास्त्राणां महर्षीणां च दिव्यलोचनानां । कैव- ल्यभात्यन्तिकदुः खत्रयप्रशमलक्षणं न बुद्ध्यादीनां स- म्भवति । ते हि दुःखाद्यात्मकाः कथं स्वभावाद्वियोज-
पक्षे कर्मकर्तृविरोधापत्तिर्वधिका । श्रौतसंज्ञामाह-सचात्मेति ।
केचित्तु भावाभाववदात्मानात्मकोटिद्वयातिरिक्ताभावदित्याह- स चात्मेतीत्याहुः । आहुरित्यनेन कोटिद्वातिरिक्ताभावेऽपि अन्यतरकोटिनिर्णायकाभावादन्यतरकोटिनिर्णयासम्भव एवास्व- रसः सूचितः । स्वत्वं लघुप्रकाशकमिति वदताचार्येण सत्त्वात्सं- जायते ज्ञानमिति स्मृत्या च सवपरिणाम बुढ्यादीनां प्रकाशकत्व- कथनाद्दश्यत्वमनुपपन्नमियाशङ्क्याह-दृश्यत्वञ्चेति । एतन्मते ल- क्षिनलक्षणाकिल्पनागौरवमेवस्वरसः ॥ हेत्वन्तरमाह-इतश्चेति । प्रवृत्तिपदस्य ससम्बन्धिकत्वात्सम्बन्धिनो दर्शयति शास्त्राणां कै- वल्यप्रतिपादनार्थंं महर्षीणां दिव्यलोचनानां चकैवल्यप्राप्त्यर्थ- मिति बोध्यम् ।
अनुमानप्रकारस्तु । विवादाध्यासितो वेदः स्वातिरिक्तार्थबो- धकः बोधकत्वात् प्रदीपादिवत् । विवादाध्यासितो दुःखनिष्ठवि- भागः स्वाश्रयातिरिक्त प्रतियोगिकः विभागत्वात् घटनिष्ठविभाग- वेत् । विपक्षे बाधकमाह-ते हीति । कुतो न सम्भवतीत्यतआह- कथामिति । स्वभावो नामात्मा तद्वियोगे कर्मकतृविरोधः स्यादित्य- शुन्यतैब स्यादिति केचित् । तन्न विरोधेन तद्वियो-