पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

क्षेत्रं तु पुरुषभेदे भवति व्यवस्था । न च ‘एकस्यापि पुरुषस्य देहोपधानभेदाद्व्यवस्था' इति युक्तम्, पाणिस्त- नाद्युपाधिभेदेनापि जन्ममरणादिव्यवस्थाप्रसङ्गात् । न हि पाणौ वृक्णे जाते वा स्तनादौ महत्यवयवे युवति- मृता जाना चा भवतीति ॥

 इतश्च प्रतिक्षेत्रं पुरुषभेद इत्याह-"अयुगपत्प्रवृत्ते- श्व" इति । प्रवृत्तिः प्रयत्नलक्षणा यद्यप्यन्तः करणवर्तिनी, तथाऽपि पुरुषे उपचर्यते । तथा च तस्मिन्नेकत्र शरीरे प्रयतमाने, स एव सर्वशरीरेष्वेक इति सर्वत्र प्रयतेत,




यततवत् । विपर्यये पुरुषैक्येऽपि देहोपाधभिर्जन्मदिव्यवस्थो- पपत्तावनेकत्वकल्पना गौरवं बाधकमिति ।

 प्रति प्रसङ्गमाशङ्कते नचेति। व्यवस्था जन्ममरणादिव्यवस्था । जातिस्मादौ देहोपधानभेदस्य व्यवस्थायामप्रयोजकत्वसत्वेऽपि अवयवोपचयापचयाभ्यां देहभेदस्याप्यप्रयोजकत्वमियभिप्रायेण परिहरति पाणिरित्यादिना । स्तनादीत्यादिपदेनावयवान्तरं ग्राह्यं । तथाच प्रत्यक्षविरोधेन समबलत्वाभावान्न प्रति प्रसङ्ग इत्यर्थः । वृक्णेछिन्ने । हेत्वन्तरमाह-इतश्चेति । प्रयत्नलक्षणेति । चैत्रचेष्टा प्रयत्नपूर्वका स्वतन्त्रचेष्टात्वात् मदीयचेष्टावत इत्यनेन प्रयत्नमनुमा- य क्वचिदाश्रितः विशेषगुणत्वादस्मदीयविशेषगुणवदित्याश्रय मनुमायासौ एतत्कालीनाप्रयतमानात् , भिन्नविषये तत्काली- नप्रयतमानाद्वा भिन्नः तद्विरुद्धधमाश्रयत्वाद्गहनतुहिनवदित्य- र्थः । हेन्वसिद्धिं निरस्यति । प्रवृत्तिरिति । विमतः पुरुषः प्रतिक्षेत्रं भिन्नो युगपत्प्रवर्त्तमानत्वात्सम्प्रतिपन्नवदिति हेत्व- सिद्धिं निरस्यति प्रवृत्तिरितीत्यन्ये । उपचयते-छायाकुड्य- प्रीतबिम्बवत्प्रतिविम्बरूपेण तत्र वृत्तिमादायोपचर्थ्यते इत्यःर्थः । विपर्यये बाधकमाह-तथाचेत्यादि । अत्रत्यचकारस्तु अ-