पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
पुरुषबहुत्वसिद्धिः ।


चित्तमोबहुला, यथा तिर्यग्योनयः । सोऽयमीदृस्त्रौ गुण्यविपर्ययो ऽन्यथाभावस्तेषु तेषु सत्त्वनिकायेषु न भ- वेत् यद्येकः पुरुषः स्यात्, पुरुषभेदे त्वयमदोष इति ॥१८॥




वाच्यम् । प्रमत्वे बाधकाभावात् । तदारम्भकराज्यादिप्रापका- दृष्टे सति तन्नाशायोगान् । क्लृप्ततत्कारणशुक्रशोणिताद्यभावेन तदारम्भानुपपत्तेश्च । अन्यथा पित्रादिव्यवहारस्य गौणत्वापत्तेः । नच जातिस्मृतिमतः शरीरभेदेऽपि स्मरणं दृश्यते इति वाच्यम् । अदृष्टावशेषस्यैव तत्र नियामकत्वान्नत्वात्मैक्यस्य । योगिनामात्मा- न्तरेऽपि तद्दर्शनात् । आत्मैक्यस्य तत्प्रयोजकत्वे तव मते योगी- तरोऽपि किन्न स्मरेत् । नच वेदान्तसूत्रेषु क्वापि सर्वात्मतोक्तास्ति, प्रत्युत भेदव्यपदेशाच्चान्यः । अधिकन्तु भेदनिर्देशात् । अंशो नानाव्यपदेशादित्यादिसूत्रैर्भेद उक्त इति वाच्यम् । अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः । तत्तुसमन्व- यात् ।आत्मति तूपगछन्ति ग्राहयन्तिचा इत्यादिसूत्रैरभेद- स्य व्युत्पादनात् । तथाहि वक्ष्यमाणरीत्या ब्रह्मशब्दस्याद्वयपरत्वात् ।

 लक्षणार्थस्तु अस्य प्रत्यक्षानुमानाद्युपस्थितस्य जगतो जन्मस्थिति भङ्गा यतो भवन्ति तद्ब्रह्म । नन्वत्र ब्रह्मशब्दाभा- वान्कथं ब्रह्मण एवेदं लक्षणमिति चेच्छ्टुणु । सूत्रेण यस्य वाक्य- स्था निरूप्यते तदेतस्य विषयो मूलभूतं "यतो वा इमानि भू- तानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसेविशन्ति त- दुब्रह्मेति' वाक्यं तत्र ब्रह्मशब्दप्रयोगादत्र ब्रह्मलाभः । तथा चा- विधेयब्रह्मतान्वययोग्याद्वैतकारणोपस्थानसमर्थ त्रितयकारणत्वमेव लक्षणमभिमतमन्यथाद्वयब्रह्मलक्षणत्वासम्भवात् । लक्ष्यस्याद्वयत्वं च ब्रह्मशब्दादवगम्यते । तथाहि । वृहिधातुर्हि वृद्धिमाभिधत्ते । वृद्धिश्चात्र स्वरूपोपचयः सच सर्वात्मतायोग्यतैव । नच लोके वृद्धि- शब्दस्य नदीपूरावयंचे आकाशवृत्तिपरिमाणावशेषे वा प्रयोगदर्श-