पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
साक्षित्वादिसिद्धिः ।

भावः कैवल्यम् । तच्च तस्य स्वाभाविकादेवात्रैगुण्यात् सुखदुःखमोहरहितत्वात्सिद्धम् ॥

 अंत एवात्रैगुण्यान्माध्यस्थ्यम् । सुखी हि सुखेन तृ- प्यन् दुःखी हि दुःखं द्विषन् मध्यस्थो न भवति । तद्- भयरहितस्तु मध्यस्थ इत्युदासीन इति चाख्यायते । विवेकित्वादप्रसवधर्मित्वाञ्चाकर्तेति सिद्धम् ।। १९ ।।

 स्यादेतत्-प्रमाणेन कर्तव्यमर्थमवगम्य ’चेतनोऽहं चिकीर्षन् करोमि' इति कृति चैतन्ययोः सामानाधिकर- ण्यमनुभवसिद्धम् । तदेतस्मिन्मते नावकल्पते, चेतन- स्याकर्तृत्वात् कर्तश्चाचैतन्यात् इत्यत आह-




नात्यन्तिकदुःखनिवृत्तिरूपकैवल्यमपि सदैव पुरुषस्येत्याह-तञ्चेति। ननु सर्वदा कैवल्यसत्त्वे कथं तस्य पुरुषार्थत्वं,अत्रभाष्यकाराः-पुरु- पार्थस्तु दुःखभोगनिवृत्तिः, प्रतिबिम्बरूपदुःखनिवृत्तिर्वेति । अधिकं तूक्तं पुरस्तान् । मध्यस्थ्यं चापक्षपातित्वम् । उपकारापकारराहित्य- मित्यन्ये । तत्र हेतुमाह-सुखीति । ननु सूत्रे माध्यस्थ्यस्यगणनात् औदासीन्यस्य च गणनाद्विरोध इयाशङ्क्याहोदासीन इति । औ दासीन्यपदेन निष्कामत्वादयोऽप्युपलक्षणीयाः । 'कामः सङ्कल्प' इत्यादिश्रुत्या कामादेर्मनोधर्मत्वावधारणात् । उपरागत्कर्तृत्वमिति सूत्रसूचितमकर्तृत्वमप्याह-अकर्त्तेति । नचैवमौदासीन्यपदस्या- कर्तृपरत्वकथनं भाष्यकृतां विरुध्येत । प्रमाणेन तत्वं निर्निनीषतां- ग्रन्थविरोधस्यादोषत्वात् । रागद्वेषविनिर्मुक्तेषु यदृच्छोपपनेषु शरीरयात्रां कुर्वत्स्वपि उदासीनपदप्रयोगेणौदासीन्यस्य केतृत्वे- नाविरोधाञ्च ॥ १९ ॥

 उपोद्घातसङ्गत्यार्ययामवतारयति-स्यादेतदिति । कर्तव्य ज्ञानं विना चिकीर्षासम्भवादाह-प्रमाणेनेत्यादि । कृतिचैतन्ययोः सा- मानाधिकरण्यप्रतीतेः प्रमावलाभाय प्रमाणेनेति । कर्तुः बुद्धेः ।