त्यत आह--तत्कृतः सर्ग इति । संयोगो हि न महदा-. दिसर्गमन्तरेण भोगाय कैवल्याय च पर्याप्त इति संयोग एव भोगापवर्गाथं सर्गं करोनीत्यर्थः ॥ २१ ॥
सर्गक्रममाह-
प्रकृतेर्महांस्ततो ऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥
कथने न्यूनतपत्तिरिति वाच्यम् । कैवल्यपदस्य दुपलक्षकत्वात् । नच सृष्टिपदमेव कुतो न निबद्धमिति वाच्यम् । मोक्षस्य मुख्यत्वा- त् । नचैवं सकृत्सृष्ट्यैव मोक्षसम्भवे पुनः पुनः सृष्टिर्न स्यादिति वाच्यम् । अनेकजन्मकृतपुण्यपुञ्चैः शुद्धन्तः करणस्य शमदमादि साधनवतः श्रवणादिद्वारा साक्षात्कारवत एव मोक्षसम्भवात् ।। कियतां माक्षेऽपि अन्येषां मोक्षार्थं सृष्टिप्रवाहसम्भवाच्च। तदुक्तं पा- तञ्जले ‘कृतार्थं प्रति नष्टमप्यनष्टं तदन्यमाधारणत्व' दिति ॥ २१ ॥
वक्ष्यमाणमर्गस्य क्रमघटितत्वापोद्वातसङ्गतिसूचनायार्यमवता- रयति-सर्गक्रममिति । प्रकृतिशब्दस्य कारणसामान्यपरत्वा- देतस्मादात्मन आकाशः सम्भूत इत्यादिश्रुति सिद्धजगत्कारणपुरु- पपरत्वभ्रमं वारयितुमाह-प्रकृतिरव्यक्तमिति । तथाच ‘अजा- मेकां लोहितशुक्लकृष्ण वह्नीः प्रजाः सृजमानां सरूपाः' । 'मायां तु प्रकृतिं विद्यात् ।।
चतुर्विंशकमव्यक्तं प्रधानङ्गुणलक्षणम् ।
अनादिमध्यनिधनं कारणं जगतः परम् ।।
इत्यादिश्रुतिस्मृतिभिः प्रकृतेस्स्रष्ट्टत्वसिद्धेः । तदेतद्ब्रह्मापूर्वमन-
परमबाह्यं । ’न तस्य कार्यं करणं च विद्यते'। 'अस्थूलमन’ण्वियादि-
कूटस्थप्रतिपादकश्रुतिविरोधाञ्च । स्रष्टत्वाध्यासद्वाराऽभेदोपासना-
यामेवोक्त श्रुतेस्तात्पर्यं । अतएवा "त्मैवेदं" सर्व मित्याद्यभेदबोधकश्रुत्यु-