हरणीयानीत्यर्थः ।।
अत्र कचित् । उपक्रमोपसंहारादिनाऽद्वितीयब्रह्मणि सर्वासा- मुपनिषदां तात्पर्ये निर्णीते ‘न तस्य कार्यकरणं चविद्यते' इत्यादि- श्रुत्याऽकारणत्वे चावगते कार्यं सकारणकमिति न्यायानुगृहातप्रत्य क्षादिना कार्य सजातीयव्रह्मातिरिक्त कारणसम्भावनानिरासद्वारा ब्रह्मकारणत्वप्रतिपादकोपनिषदामद्वितीये ब्रह्मणि तात्पर्यावश्यक त्वे द्वा सुपर्णा सयुजा सखाया' वित्यादिभेदप्रतिपादकश्रुतीनां लोकावगतभेदानुवादत्वेन भेदे तात्पर्याभावे ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इत्यादिश्रुत्योपास्यान्यत्वे चावगतेऽप्यत्र तात्पर्य- कल्पनाऽसम्भवेनोपासनाया अन्यत्र कारणत्वकल्पनायाश्चासम्भवः।
ननुपक्रमादेः कथं सर्वासामुपनिषदामद्वितीये ब्रह्मणि ता- त्पर्यनिर्णयकत्वमिति चेच्छृणु । उपक्रमादि तावत्-
उपक्रमोपसंहारावभ्यासोऽपूर्तता फलं । ।
अर्थवादोपपत्ती च लिङ्गन्तात्पर्यनिर्णये ॥
इति ।। तत्रोपक्रमोपसंहारित्वं-विचार्यवाक्याद्यन्तभागयोरे-
कार्थपर्यवसानत्वम् । अभ्यासत्वमनन्यपरपुनःपुनःश्रूयमाणपदत्वम् ।
अर्थवादत्वं स्तुतिनिन्दान्यतरबोधकवाक्यत्वम् । तत्रयं शब्दघटित
त्वाच्छब्दनिष्ठम् । तत्राद्यस्यैकार्थनिर्णायकत्वे लिङ्गत्वे तात्पर्यविषय-
वेन सन्दिग्धानां बहूनां मध्ये यस्मिन्नर्थे आद्यन्तयोः पर्यवसानं
तस्मिन्नेव तात्पर्य निर्णयात् । अन्यथा तस्य वैयर्थ्यात् । क्वचिदनु-
वादित्वादिशङ्कापसारकतयापि तस्य लिङ्गत्वं, यदि हि तस्मिन्नर्थे
वाक्यमनुवादः स्यात्तदोक्तपर्यवसानं व्यर्थं स्यादिति युक्तेः। द्विती-
यं तु समिदादिवाक्यवत्सिद्धार्थकत्वेन (ना)कर्मविधाना ऽयोगादेका-
र्थतात्पर्यज्ञापकम् । अन्यथा पुनःपुनः श्रवणवैयर्थ्यांपत्तेः । तस्याद-
रज्ञापनद्वारा तात्पर्यज्ञापकत्वम् । यथाऽहो दर्शनीया अहो दर्शनीयेति-
वत् । आदरश्च यद्यपि प्राशस्त्यरूपोऽभ्यस्यमानस्यार्थस्य विधेयत्वा-