पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
सर्गक्रमनिरूपणम् ।

 केनोपनिषदि । 'केनेषित'मित्युपक्रमः ॥ श्रोत्रस्य श्रोत्र’मित्यु- पसंहारः ॥ 'न तत्र चक्षुर्गछति ‘यद्वाचनभ्युदितं,यन्मनसा न मनु- ते' इत्यभ्यासः ॥ नचात्रापूर्वतापि प्रतीयत इति वाच्यं । तत्सत्वेऽपि अभ्यासम्याक्षतेः । ‘अन्यदेव तद्विदितादथो अविदिता'दित्याद्य- पूर्वता । 'प्रेत्यास्माल्लोकादमृता भवन्ती’ तिफलं । इह चेदवेदीदथ : सत्यमस्ति नचेदवेदीन्महती विनष्टि’ रित्यर्थवादः। ‘ब्रह्महा देवेभ्यो विजज्ञे' इत्यारभ्य ‘ब्रह्मति होवाच ब्रह्मणो वा एतद्विजये महीयध्व- मित्यर्थवाद उपपत्तिश्चेति । अत एव भाष्ये एतस्यार्थवादत्वो- पवर्णनं न विरुध्यते ।

 कठोपनिषदि ‘अन्यत्र धमादन्यत्राधमा' दित्युपक्रमः । ‘ब्र- वीम्योमित्येत'दित्युपसंहारः । न विजुगुप्सते एतद्वैतत् । विपश्य- त एतद्वैतत् । व्यजायत एतद्वैतत् । इत्यादिसप्तधाऽभ्यासः । श्रव- णायापि बहुभिर्यो न लभ्य'इत्यपूर्वता । ‘ब्रह्मप्राप्तो विरजोऽभूद्विमृ- त्युरितिफलम् । ‘विद्यामीप्सितत्वान्नचिकेतसंमन्ये इत्यर्थवादः। 'त- स्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । यदिदङ्किञ्चजगत्सर्वं प्राण एजति निः सृतं । महद्भयं वज्रामुद्यत'मित्याद्युपपत्तिः ।

 प्रश्नोपनिषदि । ‘तं त्वा पृच्छामि क्वासौ पुरुष' इत्युपक्रमः । "इहैवान्तः शरीरे सोम्य से पुरुषो यस्मिनेताः षोडशकलाः प्रभवन्ती’ त्युपसंहारः । ‘सएषोऽकलोऽमृतो भवती’ त्यभ्यासः। अथहैतं सुके- शा भारद्वाजः पप्रच्छ भगवन् हिरण्यनाभः कौशल्यो राजपुत्रो मामु- पेत्यैनं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमार मब्रुवं नाहमिसं वेदे'त्यचूर्वताऽर्थवादश्च । ‘त्वं हि नः पिता योऽस्माक- माविद्यायाः परं पारं तारयसीति फलं। ‘स प्राणमसृजत प्राणाच्छ्रद्धा- ङ्खं वायुर्जयोतिरापः पृथिवींन्द्रियं मनोऽन्नं अन्नाद्वीर्य्यन्तपोमन्त्राः कर्म- लोका लोकेषु च नामचे'त्युपपत्तिः । तमित्यादेरयमर्थः । विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठति(मन्त्र) तदक्षरं वेदयते ।